________________
॥श्री भक्तामरस्तोत्रम् ॥ .
अथ समासा :- न विद्यते व्ययो यस्य सः अव्ययस्तम्। चिन्तयितुं योग्यश्चिन्त्यः, न चिन्त्योऽचिन्त्यस्तम्। न विद्यते सङ्ख्यं सङ्ख्या वा यस्य सः असङ्ख्यस्तम्। 'युद्धं तु सङ्ख्यं कलि:' (अभि. का. ३, श्लो. ४६०) इति हेमपादाः। आदौ भव आद्यस्तम्। बृंहति-अनन्तानन्देन वर्धते इति ब्रह्मा तम्। न विद्यते अन्तो यस्य स अनन्तस्तम्। अनङ्गस्य केतुरिव केतुरनङ्गकेतुस्तम्। केतुधूमकेतुरित्युच्यते, पदैकदेशे पदसमुदायोपचारात्, धूमकेतुग्रहस्तु विनाशाय स्यादिति। योगिनामीश्वरो योगीश्वरस्तम्। विदितो योगो येन स तम्। न एकः अनेकस्तम्। ज्ञानमेव स्वरूपं यस्य स तम्। न विद्यते मलः-कर्मलेपो यस्य सः अमलस्तम्। गभीरार्थं च इदं काव्यं विशेषज्ञेभ्यो ज्ञेयम्।। इति काव्यार्थः।।२४।।
अर्थ :- सत्पुरुषो मापने अव्यय, विभु, मयिन्त्य, मसंज्य,प्रथम, ब्रह्मा३५ ઈશ્વરરૂપ, અનંત, કામદેવનો નાશ કરવામાં કેતુ સમાન, યોગીશ્વર, યોગજ્ઞ, अने, मद्वितीय, निस्व३५ (अने) पा५३५ भव२हित ४ छ.
अथ बाहुल्येन प्रसिद्धदेवस्वरूपेण वर्णयन्नाह बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्
त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानाद्
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ दण्डान्वयः- विबुधार्चितबुद्धिबोधात् त्वम् एव बुद्धः भुवनत्रयशंकरत्वात् त्वम् शंकरः असि धीर ! शिवमार्गविधेः विधानात् धाता असि भगवन् ! त्वम् एव व्यक्तम् पुरुषोत्तमः असि ।
हे धीर ! त्वमेव बुद्धोऽसि इत्यन्वयः। 'असि' इति क्रिया. । कः कर्ता ? 'त्वम्' । किंविशिष्ट :? 'बुद्धः' बुद्धनामा बौद्धानां देवः, कृष्णस्य बुद्धावतारो वा । एवकारो अत्र निर्णये । कस्मात् ? 'विबुधार्चितबुद्धिबोधात्' विबुधैः
का
४१ व