________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
विष्णुरूपमित्यर्थः,रामकृष्णयोरैक्यत्वेन प्रतीतत्वात्, अत एव -
'वेदानुद्धरते जगन्निवहते भूगोलमुद्विशते दैत्यान् दारयते बलिं छलयते क्षत्रक्षयं कुर्वते। पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः॥१॥' -शार्दूल० इत्यष्टपद्यामप्युक्तम्। पुनः किं० त्वाम्? 'अनङ्गकेतुं' कन्दर्पस्य नाशक त्वेन केतुतुल्यं, बुद्धदेव मित्यर्थः, बुद्धस्य मारलोकजयित्वेन प्रसिद्धत्वात्। अत एव
"सुगत एव विजित्य जितेन्द्रिय
स्त्वदुरुकीर्तितनुं यदनाशयत् । नव तनूमवशिष्टवतीं ततः
समिति भूतमयीमहरद्धरः॥१॥" --द्रुतविलम्बितम् ० इति नैषधीये (स. ४, श्लो. ८०) अपि प्रोक्तम्। पुनः किं.? 'योगीश्वरं' योगनां ध्येयं, साडयमते परमर्षितया प्रसिद्धम्। पुनः किं. त्वां? 'विदितयोगं' ज्ञाताष्टाङ्गयोगमार्ग, नैयायिकमते गौतमं, पातञ्जलिमते पतञ्जलिं वा, योगसाधनवीथीनामुपदेशकत्वेन प्रसिद्धत्वात्। पुनः किं० त्वाम्? 'अनेकं' अनेकगुणसंयुक्तं, सृष्टिकारकं मन्वादिकं वा, केषाञ्चिन्मते सृष्टिकारकाणां मन्वादीनां अनेकत्वात्, इत्यनेन मीमांसकमतसंमतिर्दर्शिता। पुनः किं० त्वाम्? “एकं' सङ्ग्रहनयापेक्षया जीवद्रव्यस्य एकत्वात्, अत एव “एगे आया' इति स्थानाङ्गसूत्रम्, परमतेऽपि_ 'एक एव हि भूतात्मा, देहे देहे व्यवस्थितः ।
एकथा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥' - अनु० इति, अनेन वेदान्तिनां मतं सूचितम्। पुनः किं० त्वाम्? 'ज्ञानस्वरूपं' केवलज्ञानमयं इति, अनेन ज्ञानाद्वैतमतं दर्शितं, तेषां मते ज्ञाता ज्ञेयं च नास्ति, केवलं ज्ञानमेवेति, यद्वा शुद्धबुद्धस्वभाव इत्यौपनिषदमतं ज्ञापितम्। पुनः किं. त्वाम्? 'अमलं' निर्मलं अष्टादशदोषरहितं निर्लेपमात्रं वा इति, अनेन लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपतमतं सूचितम् । सर्वेष्वपि दर्शनेषु तत्तन्नाम्ना तत्तथारूपाध्यवसायेन त्वामेव देवत्वेन तीर्थान्तरीयाः प्रपन्नाः सन्तीति भावः ।।
ना ४०
-