________________
॥श्री भक्तामरस्तोत्रम् ॥ अथ सर्वदेवस्वरूपेणापि परमपुरुषत्वमेव द्रढयति त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः॥२४॥ दण्डान्वयः- सन्तः त्वाम् अव्ययम् विभुम् अचिन्त्यम् असंख्यम् आद्यम् ब्रह्माणम् ईश्वरम् अनन्तम् अनङ्गकेतुम् योगीश्वरम् विदितयोगम् अनेकम् एकम् ज्ञानस्वरूपम् अमलम् प्रवदन्ति।
हे मुनीन्द्र ! - भगवन् ! सन्तः- पण्डिताः सत्पुरुषा वा त्वां अव्ययं प्रवदन्ति इत्येवं एकैकं विशेषणं गृहीत्वा अन्वयः। 'प्रवदन्ति' पारम्पर्येण प्रतिपादयन्ति । 'प्रवदन्ति' इति क्रियापदम्। के कर्तारः? 'सन्तः'। कं कर्मतापन्नम्? 'त्वाम्'। किंविशिष्टं त्वाम्? 'अव्ययं' क्षयरहितं, नित्यमित्यर्थः, द्रव्यार्थिक नयापेक्षया जीवस्वरूपेण नित्यत्वात्, ‘भाविनि भूतोपचार' इति न्यायेन चरमशरीरभाजः सिद्धत्वेन विवक्षणाद् वा। पुनः किंविशिष्टम्? 'विभुं ' तव ज्ञानस्य विश्वप्रकाशकत्वात्, ‘इयत्तानवच्छिन्नपरिमाणयोगित्वं विभुत्वं' इति नैयायिकाः, ज्ञानस्य घटादेर्वस्तुनो ग्रहणरूपपरिणामेन केनचित् प्रकारेण साकारत्वेन विश्व-व्यापकत्वस्वीकारणे जैनमतेऽपि तल्लक्षणं न दुष्टमिति, यद्वा विभवति - कर्मोन्मूलने समर्थो भवति (इति) विभुस्तम्। पुनः किंविशिष्टं त्वाम्? अचिन्त्यं' अनाकलनीयस्वरूपं, लोकोत्तरलिङ्गधारित्वात्, परमयोगिभिरपि तव यथास्थितस्वरूपानवधारणात्। पुनः किंविशिष्टं त्वाम्? 'असङ्घयं' न विद्यते सङ्घयं-युद्धं यस्य स तम्, यद्वा सङ्घयया-गुणानां गणनया रहितम्। पुनः किंविशिष्टं त्वाम्? 'आद्यं' आदिपुरुषतया प्रसिद्धं, 'आदिविद्वान् सिद्धः' इति कापिलाः, तीर्थङ्करेष्वाद्यं-प्रथमं वा। पुनः किंविशिष्टं त्वाम्? 'ब्रह्माणं' तीर्थादिकरत्वेन धर्मसृष्टिप्रणयनाद् विधातारम्। पुनः किंविशिष्टम्? 'ईश्वरं' त्रैलोक्यपूजनीयत्वेन अनन्यतुल्यैश्वर्यधारिणं, जटाशालित्वेन महाव्रतित्वेन वृषभान्वितत्वेन सुमङ्गलापतित्वेन वा ईश्वरमिव प्रतीयमानं वा। पुनः किंविशिष्टं त्वाम्? 'अनन्तं' अन्तो - मृत्युस्तद्रहितं अनन्तं बलं बलभद्रसाहचर्याद्
ना ३९ जा