________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
त्रिजगद्धयेयं निर्विकारम्। पुनः किंवि. त्वाम्? 'आदित्यवर्ण' सूर्यप्रभं (भगवतोऽपि सुवर्णवर्णत्वात्। कथम्? 'पुरस्तात्' (अग्रे)। कस्य? 'तमसः' अस्पष्टातिनिबिडान्तरान्धकारस्य अज्ञानस्य (परस्तादिति पाठे तमोविषयात् दूरे इत्यर्थः)। पुनः किं. त्वां? 'अमलं' निर्मलज्योतिष्मन्तम्।
योगिनो ध्यानान्तस्त्वामेव सम्यग् उपलभ्य मृत्यु जयन्तीति संबन्धः। 'जयन्ति' इति क्रिया.। के कर्तारः? 'मुनयः'योगभाजः। कं कर्मतापन्नम्? 'मृत्युं' कालम्। अजरामरा भवन्ति इति भावः। किं कृत्वा? 'त्वां सम्यग् उपलभ्य' त्वत्स्वरूपं यथार्थतया ज्ञात्वा, त्वद्ज्ञानाभावे योगस्यापि विफलत्वात् नाजरामरत्वं मुनीनां स्यात्, अत एवोक्तमन्यैः
"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥शा" -- अनु० तेनात्र एवोऽवधारणे। अत्र व्यतिरेकमाह-हे मुनीन्द्र! भवतः अन्यः शिवपदस्य पन्था नास्ति। 'अस्ति' इति क्रिया.। कः कर्ता? 'पन्थाः' मार्गः। कस्य? 'शिवपदस्य' मोक्षस्थानस्य। किंवि.? 'शिवः' निरुपद्रवः। कथंभूतः? भवतः 'अन्यः' अपरः, अतो मुक्तिकारणत्वेन त्वमेव परमः पुमान् इति निर्णयः, न च जन्यरूपत्वान्न तथेति वाच्यं, परैरपि ‘मनुष्यजन्माऽपि सुरासुरान् गुणैर्भवान् भवोच्छेदकरैः करोत्यधः' इति माघकाव्ये पुराणपुरुषस्य तथैवोक्तेः।।
अथ समासा :- 'म्ना अभ्यासे' धातुः। मन इत्यादेशः। परा मा-ज्ञानं यस्य स परमः तम्। आदित्य(स्येव) वर्णो यस्य स तम्। न विद्यते मलो यस्मिन् सः अमलः तम्। शिवं च तत् पदं च शिवपदं तस्य। मुनीन्द्र इति प्राग्वत्। तमस इत्यत्र 'रिरिष्टास्तात् ' (अ. २, पा. २, सु. ८२) इति हैमसूत्रात् षष्ठी।। इति काव्यार्थः।।२३।।
અર્થ - મુનીઓ આપને ઉત્કૃષ્ટ પુરુષરૂપ, સૂર્ય જેવી કાન્તિવાળા, નિર્મળ (અને) અંધકારથી દૂર રહેલા માને છે. (તથા) તમને જ સારી રીતે પામીને મૃત્યુને જીતે છે. હે મુનીન્દ્ર ! મોક્ષ પદનો બીજો ઉપદ્રવ રહિત માર્ગ કોઈપણ નથી.
* * * मा ३८ |