________________
॥श्री भक्तामरस्तोत्रम् ।।
किंवि.? 'स्फुरदंशुजालं' विलसत्किरणसमूहम्। एवकारो निश्चयार्थः। प्राच्येव नान्या दिग् इत्यर्थः।। ___अथ समासा :- शतं शतं इति शतशः, 'बह्वादेः (कारकात्) शस्' (सा. सू. ६७८)। जनयन्तीत्यत्र 'चल्याहारार्थेबुधयुधपुद्रुसुनशजनः' (अ. ३, पा.३, सू. १०८) इति हैमसूत्रात् परस्मैपदम्। तव उपमा यस्य स त्वदुपमस्तम्। सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तम्। तथा अंशूनां जालं अंशुजालं, स्फुरद् अंशुजालं यस्य स तथा तम्। अत्र सर्वाश्च ता दिशश्च सर्वादिशः कर्मधारयः, सर्वा इति पृथक् पदं वा इति, तथा जनयतीत्यत्र नामधातुरिति कोशल्यां दृश्यते। इति काव्यार्थ: ।।२२।।
અર્થ સેંકડો સ્ત્રીઓ સેંકડો પુત્રોને જન્મ આપે છે (પરંતુ) આપના જેવા પુત્રને બીજી માતાએ જન્મ આપ્યો નથી. (કેમકે) સર્વદિશાઓ નક્ષત્રોને ધારણ કરે છે. (પરંતુ) પૂર્વ જ દિશા દેદીપ્યમાન કિરણોના સમૂહવાળા સૂર્યને ઉત્પન્ન કરે છે.
* * * अथ लब्धजन्मत्वेन ऋषभस्य भगवतो न परमपुरुषत्वं, किन्तु परमपुरुषस्य अंशावतारोऽयं हयग्रीवादिवदिति परमतं दूषयन्नाह - त्वामामनन्ति मुनयः परमं पुमांस
मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ दण्डान्वयः- मुनयः त्वाम् परमम् पुमान्सम् आदित्यवर्णम् अमलम् तमसः परस्तात् आमनन्ति त्वाम् एव सम्यक् उपलभ्य मृत्युम् जयन्ति मुनीन्द्र ! शिवपदस्य शिवः अन्यः पन्थाः न ।
हे मुनीन्द्र ! -योगिनां स्वामिन् ! त्वां मुनयः परमं पुमांसमामनन्ति इत्यन्वयः। ‘आमनन्ति' अभ्यस्यन्ति इति क्रियापदम्। के कर्तारः? 'मुनयः'। कं कर्म? 'त्वाम्'। किंवि. त्वाम्? 'परमं पुमांसं' सत्त्वरजस्तमोगुणातीतं
का ३७