________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
अथ केचित् परमेष्ठिनमलक्षजन्मत्वादनादिमाहुस्तन्मतनिरासेन जिनमातरं वर्णयन्नाह - स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररश्मि
प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ दण्डान्वयः - स्त्रीणाम् शतानि शतशः पुत्रान् जनयन्ति त्वदुपमम् सुतम् अन्या जननी न प्रसूता, सर्वाः दिशः भानि दधति प्राची एव दिक् स्फुरदंशुजालम् सहस्ररश्मिम् जनयति।
हे नाथ ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति-प्रसुवते इति सम्बन्धः। ‘जनयन्ति' इति क्रियापदम्। कानि कर्तृणि? 'स्त्रीणां शतानि' बहवो नार्यस्तत्स्वभावात्। कान् कर्मतापन्नान्? ‘शतशः' बहुशतानि 'पुत्रान्' तनयान्।
तथापि हे नाथ ! त्वदुपमं सुतं अन्या काचित् स्त्री न प्रसूता-न सुषुवे इत्यन्वयः। 'प्रसूता' इति क्रिया.। का की? 'अन्या' जननी-माता, तव जनन्या मरुदेव्याः इति शेषः। किं कर्म.? 'सुतम्'। किंवि.? 'त्वदुपमं' तव तुल्यम्। मरुदेव्याः पुत्रत्वं श्रीऋषभप्रभोः परसमयेऽपि प्रसिद्धं, यदुक्तं भागवते प्रथमस्कन्धे -
"अष्टमे मरुदेव्यां तु, नाभेर्जात उरुक्रमः। दर्शयन् वर्त्म धीराणां, सर्वाश्रमनमस्कृतः॥१॥" -- अनु० अत्रार्थे दृष्टान्तमाह-सर्वा दिशो भानि दधति-धरन्ति इति सण्टङ्कः। ‘दधति' इति क्रिया.। काः कर्त्यः? 'दिशः सर्वाः' प्राच्यादयः सकलाः काष्ठाः। कानि कर्मतापन्नानि? 'भानि' नक्षत्राणि।
तथापि सहस्ररश्मि प्राच्येव दिग् जनयति-प्रसूते। 'जनयति' इति क्रिया.। का कर्ची? 'प्राची दिग्' पूर्वाऽऽशा। कं कर्मतापन्नम्? 'सहस्ररश्मि' सूर्यम्।
ना ३६ व