________________
॥ श्री भक्तामरस्तोत्रम् ॥
'दृष्टाः' इति क्रिया.। केन का? ‘मया'। के कर्मतापन्नाः? 'हरिहरादयः' कृष्णेश्वरादयो देवाः। कथम्? 'यत्' यदिति अव्ययम्।
अत्रार्थे हेतुमाह-हे नाथ ! येषु दृष्टेषु हृदयं त्वयि तोषमेति-प्राप्नोति इत्यन्वयः। ___ “एति' इति क्रिया.। किं कर्तृ? 'हृदयं' मनः। कं कर्मतापन्नम्? 'तोषं' हर्षम्। कस्मिन् ? 'त्वयि' भवति। केषु सत्सु? 'येषु हरिहरादिषु दृष्टेषु' सत्सु पूर्वं विलोकितेषु सत्सु। पूर्वं हरिप्रमुखान् दृष्ट्वा त्वद्दर्शने मम महत् प्रमोदकारणं सम्पन्नं, तेभ्यः सातिशयगुणत्वात्, लोहाभ्यासवतः स्वर्णदर्शनवत् इति भावः।
इदमेव भङ्ग्यन्तरेण द्रढयति-हे नाथ ! भवता वीक्षितेन किं स्यादिति सम्बन्धः। 'स्यात्' इति क्रियापदम्। किं कर्तृ? 'किं' हर्षकारणं विशेषतः। केन? 'भवता' त्वया। किं विशिष्टेन? 'वीक्षितेन दृष्टेन।
तत् कथमित्याह-येन कारणेन भवान्तरेऽपि न अन्यः कश्चिन्मनो हरतिवशीकुरुते इत्यन्वयः। ___ 'हरति' इति क्रियापदम्। कः कर्ता? 'कश्चित् अन्यः' अपरो देवनाथोऽपि। किं कर्मतापन्नम्? 'मनः' चित्तम्। कस्मिन् ? 'भवान्तरेऽपि' परभवेऽपि, त्वत्तोऽधिकसौन्दर्यादिगुणवतस्त्रैलोक्येऽपि अभावादिति भावः।। ____ अथ समासा :- मन्ये इत्यव्ययं तिबन्तप्रतिरूपकम्। हरिश्च हरश्च हरिहरौ, तौ आदी येषां ते हरिहरादयः। एकस्माद् भवादन्यो भवो भवान्तरं तस्मिन्, मयूरव्यंसकादित्वात् समासः। दृष्ट्वा भवन्तमित्यादिना काव्येनास्य पौनरुक्त्यं न ज्ञेयं, निन्दास्तुतित्वेन विषयभेदादिति काव्यार्थः।।२१।।
અર્થઃ (હે સ્વામી !) હરિહરાદિક દેવો જોવાયા તે સારું થયું એમ હું માનું છું (કેમકે) જે હરિહરાદિક દેવો જોવાથી મારું મન તમારે વિષે સંતોષને પામે છે. જોવાયેલા એવા તમારા વડે શું ફળ? (કે જે તમને જોવાથી હે નાથ !) આ પૃથ્વી પર અન્યભવમાં પણ બીજો કોઇપણ દેવ મારા મનને નહીં કરે.
* * * ना ३५ |