________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
योजनस्य उक्तत्वात्। एतानि च यैः शान्तरागरुचिभिरित्यादीनि ज्ञानमित्यादिकाव्यान्तानि प्रातः पठ्यमानानि बुद्धिसम्पदृद्धये भवन्तीति सूरिमन्त्र कल्पे।। ____ अथ समासा :- कृतः अवकाशो येन तत् कृतावकाशम्। हरिश्च हरश्च हरिहरौ, तौ आदौ येषां ते हरिहरादयस्तेषु। स्फुरन्तश्च ते मणयश्च स्फुरन्मणयः, तेषु स्फुरन्मणिषु। महतो भावः महत्त्वम्। काचस्य शकलं काचशकलं, तस्मिन्। किरणैराकुलं किरणाकुलं, तस्मिन्।।
अत्र 'तेजो मणौ समुपयाति यथा महत्त्वं नैवं तु काचशकलेषु रुचाकरेषु' इत्ययमपि पाठोऽस्तीति कश्चित्, तथा च सर्वं सुस्थमिति काव्यार्थः।।२०।।
અર્થ: (હે પ્રભુ !) અનંતપર્યાયવાળા વસ્તુઓને વિષે પ્રકાશ કરનારું કેવળજ્ઞાન જે પ્રકારે આપને વિષે શોભે છે તે પ્રકારે હરિહર વગેરે નાયકોને વિષે એવું શોભતું નથી. જેમ દેદીપ્યમાન મણિયોને વિષે તેજ મોટાઇને પામે છે તેમ કિરણો વડે સહિત એવા પણ કાચના કકડામાં (તજ) મોટાઈને પામતું નથી.
* * * अथान्यदेवेभ्य एवाधिकत्वं रचनान्तरेणाह मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति। किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२॥ दण्डान्वयः- हरिहरादयः एव दृष्टाः वरम् मन्ये येषु दृष्टेषु हृदयम् त्वयि तोषम् एति वीक्षितेन भवता किम् येन नाथ ! भुवि भवान्तरेपि अन्यः कश्चिद् मनः न हरति । हे नाथ ! अहं तद् वरं मन्ये । 'मन्ये' इति क्रियापदम्। कः कर्ता? 'अहम्' । किं कर्मतापन्नम् ? 'तत्' हरिहरादिदर्शनम्। किंवि.? 'वरं' प्रधानम्। तच्छब्देन यच्छब्दापेक्षयाऽऽह-यत् मया हरिहरादय एव दृष्टाः।
न ३४ |