________________
॥श्री भक्तामरस्तोत्रम् ।।
हरिहरादिषु नायकेषु न एवम् यथा स्फुरन्मणिषु तेजः महत्त्वम् याति एवम् तु किरणाकुले अपि काचशकले न। . हे नाथ ! त्वयि ज्ञानं विभाति इति सम्बन्धः। 'विभाति' शोभते इति क्रियापदम्। किं कर्तृ? 'ज्ञानं' यथार्थो वस्त्ववबोधः। कस्मिन्? 'त्वयि' भवति। किंवि. ज्ञानम्? 'कृतावकाशं' (कृतः-) विहितः अवकाशः- स्थानं प्रकाशो वा
येन तत्।
यत्तदोरभिसम्बन्धात् तथा-तेन प्रकारेण हरिहरादिषु ज्ञानं न विभाति इत्यन्वयः। योजना प्राग्वत्। केषु? 'हरिहरादिषु' कृष्णेश्वरप्रमुखेषु। किंवि.? "नायकेषु' देशाधिपत्येन प्रसिद्धेषु लोकैर्देवत्वेन स्थापितेषु। ___अत्रार्थान्तरन्यासमाह-तेजो यथा स्फुरन्मणिषु महत्त्वं याति-प्राप्नोति। ‘याति' इति क्रियापदम्। किं कर्तृ? 'तेजः' कान्तिजालम्। किं कर्म? 'महत्त्वं' माहात्म्यं गौरवं वा। केषु? 'स्फुरन्मणिषु' महारत्नेषु-इन्द्रनीलादिषु । कथम्? यथा येन प्रकारेण तथा काचशकले तेजः महत्त्वं-शोभां मूल्यं वा न यातीति। किंवि. काचशकले? 'किरणाकुले' कान्तिव्याप्तिमति। 'अपि' विस्मये, एवं अवधारणे, तुशब्दोऽत्यन्तवैलक्षण्यद्योतकः। अत्र केचिदज्ञाः त्वयेत्यन्त्र एकवचनेन हरिहरादिष्वित्यत्र बहुत्वेन उपमाभ्रमात् काचशकलेनार्हन्तं स्फुरन्मणिभिर्हरिहरादीनुपमायार्थं दूषयन्ति तदयुक्तं, अर्थान्तरन्यासे तददोषात्। अत्रैव 'वक्तुं गुणान्' इति (चतुर्थ) काव्ये 'गुणान्' इत्यत्र बहुत्वं 'अम्बुनिधिं' इति एकत्वं ; तथा त्रिद शाङ्गनाभिरित्यत्र बहुत्वं मरुतेत्यत्र एकत्वं ; तथा-शशिना विवस्वता वा इत्यत्र एकत्वं, जलधरैरित्यत्र बहुत्वम्, कल्याणमन्दिरस्तवेऽपि सामान्यतोऽपि इति अस्मादृशामिति बहुत्वं कौशिकशिशुरित्यत्र एकत्वं इति महाकवीनां बहुस्थलेषु तथाप्रवृत्तेः, अथवा व्याख्यान्तरं-यथा तु अयि पदच्छेदात् हे नाथ ! तुशब्दद्वयं महदन्तरे अस्ति, अयीति आमन्त्रणे, नायकेषु युष्मासु इत्यत्र बहुत्वं अनधिकारप्राप्तं, प्राच्यकाव्ये युष्मन्मुखेन्दु० इत्यत्रोक्तयुष्मच्छवेनान्वयात्, न चैतदयुक्तं, किरातार्जुनीयत्रयोदशसर्गे (श्लो. ५३) ''चञ्चल वसु नितान्तमुन्नता'' इति काव्यवृत्तौ घण्टापर्थ 'अन्यश्लोकगतो भवच्छब्दोऽत्र विभक्तिपरिणामेन द्रष्टव्यः, अन्यथा मध्यमपुरुषः स्यात्' इत्येवं अन्वय
का ३३ |