________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
तनोति भानोः परिवेषकैतवात्। तदा विधिः कुण्डलनां विधोरपि ॥१॥"
- वंशस्थम् इति नैषधीय (स. १, श्लो. १४) वचनात्। तथा हे नाथ ! इत्यत्रैकवचनेन युष्मन्मुखेन्दु० इत्यत्र बहुत्वेन असङ्गतिस्तथापि 'सुता न यूयं किमु तस्य राज्ञः' इति महाकाव्येषु एकस्मिन्नर्थेऽपि बहुत्वस्य युक्तत्वान्न दुष्टम्।। ___अथ समासा :- शशः अस्यास्तीति शशी, तेन। विवस-ओजो अस्यास्तीति विवस्वान्, तेन। मुखमेव इन्दुर्मुखेन्दुः, युष्माकं मुखेन्दुर्युष्मन्मुखेन्दुः, तेन दलितानि युष्मन्मुखेन्दुदलितानि तेषु। शालीनां वनानि शालिवनानि, निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि, तैः शालतेशोभते इत्येवंशीलो निष्पन्नशालिवनशाली, तस्मिन्। जीवानां लोको जीवलोकः, तस्मिन्। जलानि धरन्तीति जलधराः, तैः। जलानां भारो जलभारः, नमनशीला नम्राः, जलभारेण नम्रा जलभारनम्राः, तैः। शशिनेत्यादौ तृतीया किमित्यव्यययोगात् ।। इति काव्यार्थः ।।१९।।
અર્થ: હે નાથ ! જો પાપરૂપ અંધકાર આપના મુખરૂપી ચન્દ્ર વડે હઠી જતો હોય, તો રાત્રિને વિષે ચન્દ્ર વડે શું? અથવા દિવસે સૂર્ય વડે શું કાર્ય છે ? જેમ દુનિયામાં પાકેલા ચોખાથી લચી પડતાં વનો હોય તો જળના ભારથી નમી ગયેલા મેઘ વડે શું કાર્ય છે?
अथ दृश्यमानज्योतिर्मयपदार्थादधिकत्वं प्रतिपाद्य मतान्तरीयाभ्युपगतदेवेभ्योऽधिकत्वं दर्शयन्नाह ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरिहरादिषु नायकेषु। तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ दण्डान्वयः - कृतावकाशम् ज्ञानम् यथा त्वयि विभाति तथा
का ३२ |