________________
॥ श्री भक्तामरस्तोत्रम् ॥
अथ भगवद्वर्णने जगति तन्मयत्वं पश्यन्नित्याह किं शर्वरीषु शशिनाऽह्नि विवस्वता वा? ।
- युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ !। निष्पन्नशालिवनशालिनि जीवलोके
कार्यं कियज्जलधरैर्जलभारनप्रैः? ॥१९॥ दण्डान्वयः- हे नाथ ! तमस्सु युष्मन्मुखेन्दुदलितेषु शर्वरीषु शशिना वा अह्नि विवस्वता किम् जीवलोके निष्पन्नशालिवनशालिनि जलभारनगैः जलधरैः कियत् कार्यम्?।
हे नाथ ! शर्वरीषु शशिना किं कार्यं भवति? अथवा अह्नि विवस्वतासूर्येण किं कार्यं भवति? इति वाक्यद्वयम्।
'भवति' इति क्रियापदम्। किं कर्तृ ? 'कार्यम्' । केन ? 'शशिना' चन्द्रेण। कासु? 'शर्वरीषु' रात्रिषु । 'वा' अथवा। केन? विवस्वता' सूर्येण । कस्मिन् ? 'अह्नि' दिवसे। उभाभ्यामपि न किञ्चित् कार्यमिति भावः। केषु सत्सु? 'तमस्सु युष्मन्मुखेन्दुदलितेषु' सत्सु, तमस्सु अन्धकारेषु युष्माकं वदनचन्द्रेण पराकृतेषु सत्सु।
अत्र दृष्टान्तमाह - हे नाथ ! जलधरैः कियत् कार्यं भवति इत्यन्वयः। 'भवति' इति क्रियापदम्। किं कर्तृ? 'कार्यम्'। किंविशिष्टं कार्यम्? 'कियत्' किंपरिमाणम्, स्तोकमपि कार्यं नैवेत्यर्थः। कैः करणैः? 'जलधरैः'। किंवि जलधरैः ? 'जलभारनगैः' अतीव जलभृतैः। कस्मिन् सति? 'जीवलोके' प्रत्यक्षे मर्त्यलोके 'निष्पन्नशालिवनशालिनि' सम्पन्नधान्यक्षेत्रैः शोभमाने सति। धान्येषु निष्पन्नेषु न मेघप्रयोजनम्, तथा त्वन्मुखप्रभाप्रकाशिते जगति न चन्द्रेण सूर्येण (वा) कार्यमिति भावः। अत्र मुखप्रकाशेन सूर्याचन्द्रमसोर्यद्यपि वस्तुतो न निरर्थकत्वं तथापि कवेस्तथाभावोल्लासान्न दोषः,
"तदोजसस्तद्यशसः स्थिताविमौ
वृथेति चित्ते कुरुते यदा तदा। ना ३१ जा