________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
गम्यम् वारिदानाम् न अनल्पकान्ति जगत् विद्योतयत् तव मुखाब्जम् अपूर्वशशाङ्कबिम्बम् विभ्राजते।
हे मुनीन्द्र ! तव मुखाब्जं अपूर्वशशाङ्कबिम्बं विभ्राजते इत्यन्वयः। 'विभ्राजते' शोभते इति क्रियापदम्। किं कर्तृ? 'मुखाब्जं' वदनकमलम्। कस्य? 'तव' भवतः। किंविशिष्टम्? 'नित्योदयं' अहर्निशं सश्रीकम्, यद्वा उत्-प्राबल्येन अयः-शुभभाग्यं तद्युक्तम्। पुनः किंवि.? 'दलितमोहमहान्धकारं' निरस्तं अज्ञानरूपं तिमिरं (येन तत्)। पुनः किं.? 'राहुवदनस्य' राहुशब्देन अत्र कालः, अथ (वा) दुर्वादिवादः तस्य मुखस्य न आक्रमणीयं, कर्तरि षष्ठी, तथा ‘वारिदानां न गम्यं,' वारिदाश्चात्र कामस्नेहदृष्टिरागास्त्रयोऽपि - ग्राह्याः, तेषामपि परवशो नैव।
पुनः किं.? 'अनकल्पकान्ति' प्रबलप्रकाशम्। तथा मुखाब्जं किं कुर्वत्? 'जगत् विद्योतयत्' (विश्वं) प्रकाशयत्। अत एव पुनः किं. वि.? 'अपूर्वशशाङ्कबिम्बं' लोके दृश्यमानचन्द्रबिम्बादन्यस्वरूपं चन्द्रबिम्बं, तत्तुल्यमित्यर्थः, दृश्यमानं हि चन्द्रबिम्बं नित्योदयं न, नापि मोहतिमिरपराकरणसमर्थं, तथा राहुवदनं (नस्य) पराभवनीयं, लोकैकदेशप्रकाशकं चेति युक्तं अपूर्वत्वम्॥ ____ अथ समासा :- नित्यं उदयो यस्य स तत् नित्योदयं, 'नेधुवे' इत्यनेन त्यप्रत्ययः सिद्धहैमे (अ.६, पा. ३, सू. १७)। महांश्चासौ अन्धकारश्च महान्धकारः, मोह एव महान्धकारः मोहमहान्धकारः, दलितो मोहमहान्धकारो येन तद् दलितमोहमहान्धकारम्। राहोर्वदनं राहुवदनं, तस्य राहुवदनस्य। वारि ददत इति वारिदास्तेषाम्। मुखमेव अब्जं मुखाब्जम्। न अल्पा अनल्पा, (अनल्पा) कान्तिर्यस्य तत्। न पूर्वं अपूर्व, शशाङ्कस्य बिम्बं शशाङ्कबिम्बं, अपूर्वं च तत् शशाङ्कबिम्बं च अपूर्वशशाङ्कबिम्बम्।। इति अष्टादशकाव्यार्थः।।१८।।
અર્થ: નિરંતર ઉદય પામતું મોહરૂપી અંધકારનો નાશ કરનારું, રાહુના મુખને અગમ્ય, મેઘને પણ અગમ્ય, ઘણી કાન્તિવાળું તથા સમગ્ર જગતને પ્રકાશિત કરતું અપૂર્વ ચન્દ્રબિંબ જેવું આપનું મુખ કમળ શોભે છે.
ना
३० |