________________
॥श्री भक्तामरस्तोत्रम् ॥
अम्भोधरा अत्र स्नेहधारिणः स्वजनास्तेषां उदरे-मध्येऽपि निरुद्धो-व्यपगतः प्रभावः - तेजः - स्वरूपं यस्य स ईदशो नैव, संसारमध्ये वसन्नपि न कर्मलिप्तः, “पुरिसवरपुंडरीयाणम्' इति (शक्रस्तव) वचनात् इति भावः। सूर्यस्तु सदैव अस्तं याति, राहुगम्यो भवति, क्रमेण जगदेकदेशं प्रकाशयति, अम्भोधरोदरनिरुद्धमहाप्रभावः-मेघपटलव्यालुप्तप्रकाशो भवति; हे मुनीन्द्र ! त्वं तु ततोऽन्यस्वरूप इत्यतः सूर्यादधिक इत्यर्थः।।
अथ समासा :- अस्तमित्यव्ययं नाशार्थे। राहोर्गम्यो राहुगम्यः। अस्पष्टानि स्पष्टानि करोषि स्पष्टीकरोषि, केवलज्ञानेन सर्वलोकालोकप्रकाशकत्वात्। सहसा शीघ्रार्थे, युगपत् समकालार्थेऽव्ययम्। अम्भो धरन्तीति अम्भोधराः, तेषां उदरं अम्भोधरोदरं, तत्र तेन वा निरुद्धः अम्भोधरोदरनिरुद्धः, महांश्चासौ प्रभावश्च महाप्रभावः, अम्भोधरोदरनिरुद्धः महाप्रभावो यस्य स तथा। सूर्य अतिशेते इत्येवंशीलः सूर्यातिशायी, सूर्यातिशायी महिमा यस्य स तथा, समासान्तविधेरनित्यत्वात् नात्र समासान्तः। मुनीनां इन्द्र इव इन्द्रः मुनीन्द्रः, तत्सम्बोधनं हे मुनीन्द्र! ।। इति सप्तदशकाव्यार्थः ।।१७।।
अर्थ : मा५ ५९ मत सस्तने पामता नथी. (तथा) राई व भराभ्य, (તથા) તત્કાળ એક સાથે ત્રણ જગતને પ્રગટ કરો છો. તથા મેઘના મધ્ય ભાગ વડે નહિ રોકાયેલા મહાપ્રભાવવાળા, (તેથી) હે મુનીશ્વર જગતમાં સૂર્યથી અધિક મહિમાવાળા આપ છો !
अथ चन्द्रादपि भगवतोऽतिशयमाह नित्योदयं दलितमोहमहान्धकारं
गम्यं न राहुवदनस्य न वारिदानाम्। विभ्राजते तव मुखाब्जमनल्पकान्ति
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ दण्डान्वयः - नित्योदयम् दलितमोहमहान्धकारम् राहुवदनस्य न
ना २९ ।