________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
કરો છે (તથા) પર્વતને કંપાવનાર એવા વાયુને ક્યારે પણ અગમ્ય એવા (તથા) જગતમાં પ્રકાશ કરનાર આપ અલૌકિક દવારૂપ છો.
* * * अथ जगत्प्रकाशकत्वमेव सूर्योपमाया निरासेन प्रकटयन्नाह नास्तं कदाचिदुपयासि न राहुगम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ दण्डान्वयः- कदाचित् अस्तम् न उपयासि, राहुगम्यः न, सहसा युगपत् जगन्ति स्पष्टीकरोषि अम्भोधरोदरनिरुद्धमहाप्रभावः न, मुनीन्द्र! लोके सूर्यातिशायिमहिमा असि।
हे मुनीन्द्र ! ऋषीणां स्वामिन् ! लोके त्वं सूर्यातिशायिमहिमाऽसि इत्यन्वयः। 'असि' इति क्रियापदम्। कः कर्ता? 'त्वम्'। अकर्मको धातुः। किंवि. त्वम्? 'सूर्यातिशायिमहिमा' आदित्यादधिकमाहात्म्यधरः।
तत् कथमित्याह - हे मुनीन्द्र! यद्-यस्मात् कारणात् त्वं कदाचित् न अस्तं उपयासि - प्राप्नोषि। उपयासि' इति क्रियापदम् । कः कर्ता? 'त्वम्' । किं कर्म? 'अस्तं' मरणं । "दिष्टान्तोऽस्तं कालधर्मः" (अभि. का. २, श्लो. २३८) इति हैमपादाः। कथम्? 'कदाचित् कस्मिंश्चिदपि समये, सिद्धत्वेन जरामरणरहितत्वात्।
पुनः कथमित्याह-हे मुनीन्द्र! त्वं सहसा युगपत् जगन्ति स्पष्टीकरोषि इति संबन्धः। ‘स्पष्टीकरोषि' इति क्रियापदम्। प्रकटानि कुरुषे इत्यर्थः। कः कर्ता? 'त्वम्'। कानि कर्माणि? “जगन्ति' सर्वभुवनानि। किंवि. त्वम्? 'न राहुगम्यः' राहुरत्र लक्षणया तमः - पापं ग्राह्यं, तस्य जातावेकवचनं, तेन न गम्यः - आक्रमणीयो नैव। पुनः किंवि० त्वम्? 'अम्भोधरोदरनिरुद्धमहाप्रभावः'
ना २८ |