________________
॥श्री भक्तामरस्तोत्रम् ।।
तद्रहितः। पुनः किंवि. त्वम्? 'अपवर्जिततैलपूरः' तैलं चात्र स्नेहः, 'तैलं स्नेहोऽभ्यअनं च' (का. ३, श्लो. ८१) इति हेमसूरयः, स्नेहश्चात्राध्यात्मिकः पितृमातृभ्रात्रादिषु सांसारिकोऽनुरागस्तस्य पूरः-समूहस्तद्रहितः।
पुनर्हे नाथ! त्वं कृत्स्नं जगत्त्रयं इदं प्रकटीकरोषि इत्यन्वयः । 'प्रकटीकरोषि' इति क्रियापदम्। प्रकाशयसीत्यर्थः । कः कर्ता? 'त्वम्'। किं कार्यम्? 'जगत्त्रयं' त्रिभुवनं ऊर्ध्वाधस्तिर्यग्लोकलक्षणम्। किं जगत्त्रयम्? ‘कृत्स्नं' सकलम्। पुनः किं. जगत्त्रयम्? 'इदं' प्रत्यक्षम्।
तथा पुनर्हे नाथ ! त्वं जातु-कदाचित् मरुतां न गम्योऽसि। 'असि' इति क्रियापदम्। कः कर्ता? 'त्वम्'। किंविशिष्टस्त्वम्? 'गम्यो न' न आक्रमणीयः - पराभवनीयः। केषाम्? 'मरुतां' दुष्टोपसर्गकारिदेवानाम्। किं. मरुताम्? ‘चलिताचलानां' कम्पितगिरीणां, बलवतामित्याशयः। लोकप्रसिद्धो हि दीपो धूमवर्तियुक्तः, तैलपूरसहितः, किञ्चित्स्थानभागस्य प्रकाशकः, अन्यच्च मरुतां-वातानां गम्यो विनाश्यः स्यात्; त्वं तु एतादृशो नासि, तथापि ‘लोगपइवाणम्' (शक्रस्तवे) इत्यागमिकैः स्तूयसे। पुनः किं० त्वम्? 'जगत्प्रकाशः' भुवनावभासी।।
अथ समासा :- धूमश्च वर्तिश्च धूमवर्ती, धूमवर्तिभ्यां निर्गतः निर्धूमवर्ति स्तत्पुरुषः, 'प्रात्यव० इति (अ. ३, पा.१, सू. ४७) सिद्धहैमसूत्रात् समासः, तैलस्य पूरस्तैलपूरः, अपवर्जितस्तैलपूरो येन सः अपवर्जिततैलपूरः। जगतां त्रयं जगत्रयम्। अप्रकटं प्रकटं करोषि प्रकटीकरोषि, अभूततद्भावे च्चिप्रत्ययः। गन्तुमर्हो गम्यः। चलिता अचला येन ते चलिताचलास्तेषाम्। जगत्सु प्रकाशो यस्य स जगत्प्रकाशः। अत्र केषाश्चिन्नेत्रोपनेत्रादीनां वस्तुप्रकटताकारित्वेऽपि न तादृक् प्रकाशकत्वं भावतोऽपि श्रुतज्ञानिनां जगत्प्रकटताकारित्वेऽपि न केवलप्रकाशवत्त्वम् , भगवति तु जगत्प्राकट्यहेतुत्वं केवलज्ञानित्वेन जगत्प्रकाशकत्वमित्युभयमस्तीति न पुनरुक्तिः , यद्वा स्तुतौ तस्या न दोष इति बोध्यम्।। इति षोडशकाव्यार्थः।।१६।।
અર્થ: હે નાથ ! (ઢષરૂપી) ધૂમાડા વગરના (અને કામદશા રૂપી) વાટ રહિત તથા સ્નેહ રૂપી તેલને પૂરવાનું તજનાર એવા આપ આ સમગ્ર ત્રણ જગતને પ્રગટ
ना २७ जा
-