________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
काले कदा, सामान्ये चित्प्रत्ययः। अत्र मरुतेत्यत्र कर्तरि तृतीया, तथा चलिता अचला येनेति अन्तर्भूतण्यन्तविवक्षया तृतीयाबहुव्रीहिणा व्याख्या कोशल्यां वर्तते। इति पञ्चदशकाव्यार्थः।। १५||
અર્થ: (હે પ્રભુ !) જો દેવાંગનાઓવડે આપનું મન જરા પણ વિકારના માર્ગ પ્રત્યે લઇ જવાયું નહિ, એમાં શું આશ્ચર્ય છે? (કાંઇપણ આશ્ચર્ય નથી. કારણ કે) પર્વતોને કંપાવનાર પ્રલયકાળના વાયુવડે શું ક્યારે પણ મેરુપર્વતનું શિખર કંપાવાયું छ. (न४ि .)
अथ रागपराजयं उक्त्वा द्वेषपराजयमाह निर्धूमवर्तिरपवर्जिततैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ दण्डान्वयः- हे नाथ ! निर्धूमवर्त्तिः अपवर्जिततैलपूरः इदम् कृत्स्नम् जगत्त्रयम् प्रकटीकरोषि चलिताचलानाम् मरुताम् जातु न गम्यः जगत्प्रकाशः त्वम् अपरः दीपः असि।
हे नाथ! त्वं अपरः दीपः असि इति अन्वयः। 'असि' इति क्रियापदम्। कः कर्ता? “त्वम्'। किं विशिष्टस्त्वम्? 'दीपः'। किं विशिष्टो दीपः? 'अपरः' अपूर्वः - अन्यदीपेभ्यो विसदृशधर्मा। कथमित्याह किंवि. त्वम्? “निधूमवर्तिः' धूमः-कार्ये कारणोपचाराद् धूमहेतुः अग्निः, स च बाह्यो वह्निः, आन्तरः क्रोधः, अग्निर्माणवक इति प्रतीतेः, क्रोधितस्य मुखेऽपि श्यामलिकादेर्दर्शनाच्च, अत एव तेजोलेश्यावतां मुखाद् धूमनिर्गमोऽप्यागमे गीयते, वर्तयः-कामदशा दश कामशास्त्रप्रसिद्धाःअभिलाष १ चिन्ता २ स्मरणे ३ गुणकीर्तनं ४ तथोद्वेगः ५ । प्रलपन ६ मुन्मादो ७ रुग् ८ जडता ९ मृत्यु १० स्मरदशा स्ताः॥१॥
ना २६
-