________________
॥ श्री भक्तामरस्तोत्रम् ।।
दण्डान्वयः - यदि त्रिदशाङ्गनाभिः ते मनः मनाम् अपि विकारमार्गम् न नीतम् अत्र किम् चित्रम्? चलिताचलेन कल्पान्तकालमरुता किम् कदाचित् मन्दरादिशिखरम् चलितम्?
हे वीतराग ! चित्रं किमत्र यदि ते-तव मनस्त्रिदशाङ्गनाभिर्विकारमार्ग न नीतं इत्यन्वयः।
'नीतं' इति अशुद्धं क्रियापदम्। काभिः कर्तीभिः? 'त्रिदशाङ्गनाभिः' देववधूभिः। किं कर्म? 'मनः' चित्तम्। पुनः किं कर्म? 'विकारमार्ग' विषयरूपकुपथं, तद्वशं इत्यर्थः। द्विकर्मको 'णी प्रापणे' धातुः, तत्रापि मन इत्यत्र प्रथमा, 'न्यादीनां कर्मणो मुख्यस्योक्तत्वं प्रत्यया' दिति वचनात्।
हे वीतराग! अत्र-अस्मिन् अर्थे किं चित्रं भवति? न किमप्याश्चर्यम्। 'भवति' इति क्रियापदम्। किं कर्तृ? 'चित्रम्'। कथम्? 'मनागपि' अल्पमपि। 'उषा निशान्ते। अल्पे किश्चिन्मनागीषच्च किञ्चन' इति हैमकोषः (का. ६, श्लो. १७२)।
अत्रार्थे सन्देहपूर्वकं दृष्टान्तालङ्कारेण उपमां योजयति-कल्पान्तकालमरुता किं मन्दरादिशिखरं कदाचिच्चलितम्? अपितु न चलितमित्यन्वयः।
'चलितम्' इति क्रियापदम्। किं कर्तृ? “मन्दराद्रिशिखरं' मन्दरनाम्नः पर्वतस्य श्रृङ्गम्। केन करणेन? 'कल्पान्तकालमरुता' युगान्तवायुना। करणे तृतीया, 'गत्यर्था.' (सा. सू. १२७१) इति सूत्रेण, 'गत्यर्थाकर्मकपिबभुजेः' इति हैम (अ. ५, पा. १, सू. ११) सूत्रेण चलधातोर्गत्यर्थत्वेन कर्तरि क्तप्रत्ययः प्राप्तः। कथंभूतेन कल्पान्तकालमरुता? 'चलिताचलेन' कम्पितान्यपर्वतेन। यथा कल्पान्तवातेन मेरुशिखरं कदाचिदपि-कस्मिन्नप्यवसरे न क्षोभमेति, तथा तवापि मनो देवीभिर्न योगमार्गात् क्षोभितमित्यर्थः।।
अथ समासा :- त्रिदशानां अङ्गनाः त्रिदशाङ्गनास्ताभिः। विकारस्य मार्गः विकारमार्गस्तम्। कल्पस्य अन्तः कल्पान्तः, स चासौ कालश्च कल्पान्तकालः, तस्य मरुत् कल्पान्तकालमरुत् तेन। चलिता अचला यस्मात् स चलिताचलस्तेन। मन्दरश्चासौ अद्रिश्च मन्दराद्रिः, तस्य शिखरं मन्दरादिशिखरम् । कस्मिन्
ना २५ जा