________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
'निवारयति' इति क्रियापदम्। कः कर्ता? 'कः' पुरुषः। कान् कर्मतापन्नान्? ‘तान्'। किं कुर्वतस्तान्? 'यथेष्टं' यथेच्छया “सञ्चरतः' प्रसरतः। तथाच समर्थस्वामिसेवकानां न कोऽपि कुत्रापि प्रतिरोधकः स्यादिति भवद्गुणानां स्वैरं प्रचारो युक्तः, सर्वोऽपि जनस्त्वद्गुणलिप्सुरिति भावः।।
अथ समासा :- सम्पूर्ण मण्डलं यस्य स सम्पूर्णमण्डलः, स चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः, तस्य कलाः, सम्पूर्णमण्डलशशाङ्ककला:तासां कलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः, तद्वत् शुभ्राः सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः। त्रयाणां भुवनानां समाहारस्त्रिभुवनं, पात्रादित्वान्न ईप्। लङ्घयन्तीत्यत्र 'प्रायः सर्वे चुरादयः' इति न्यायात् त्र्यन्तत्वम्। संश्रिता इत्यत्र वृश्रित्रञ्च (?) कितः नेट्। त्रयाणां जगतां समाहारस्त्रिजगत् द्विगुः, त्रिजगत ईश्वरस्त्रिजगदीश्वरस्तस्य सम्बोधने हे त्रिजगदीश्वर ! 'एकशब्दः सद्ध्यान्यासहायाद्वितीये (यादि) षु वर्तते' इति बृहद्धृत्तिः। निवारयतीत्यत्र 'वर निवारणे' धातुः स्वार्थे त्र्यन्तः। सञ्चरत इत्यत्र तृतीयोपपदाभावान्नात्मनेपदम्। अत्र शशाङ्कशुभ्रा इत्यनुक्त्वा कलाकलापशुभ्रा इत्युक्तिः शशाङ्के श्यामलतासद्भावात् कलाकलापे तदसम्भवेनातिधवलत्वज्ञापनायेति। इष्टं अनतिक्रम्येति यथेष्टम्। 'यथाशब्दोऽसादृश्ये' इत्यव्ययीभावः। इति चतुर्दशवृत्तार्थः ।।१४॥
અર્થ: હે ત્રણ જગતના ઇશ્વર ! સંપૂર્ણ મંડળવાળા (પૂર્ણિમાના) ચન્દ્રની કળાના સમૂહ જેવા ઉજ્જવળ આપના ગુણો ત્રણ વિશ્વને ઓળંગે છે. (કારણ કે) જેઓ એક નાથને આશ્રીને રહ્યા હોય તેમને ઇચ્છા પ્રમાણે વિચરતાં કોણ અટકાવે?
अथ प्रथमतो रागस्य दुर्जयत्वात् तज्जयमाह चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
र्नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दरादिशिखरं चलितं कदाचित्? ॥१५॥
ना २४ |