________________
॥ श्री भक्तामरस्तोत्रम ।
पाण्डुपलाशं पाण्डुपलाशकल्पम्। ईषदसमाप्तौ कल्पप्प्रत्ययः। 'पलाशं छदन बह पत्र' (अभि. का. ४ श्लो. १८९) इति हेमसूरयः।। इति त्रयोदशकाव्यार्थः।। १३।।
અર્થઃ દેવ-મનુષ્ય અને નાગકુમારના નેત્રને હરણ કરનારું તથા સમગ્રપણે ત્રણે જગતની ઉપમાને જિતનારું એવું આપનું મુખ ક્યાં? (અને) કલંકથી મલિન એવું यन्द्रनुं विंध्या ? (3) हे (यन्द्र बिंब) हिवसे 15 रान पान ठेवू थाय छे.
अथ गुणसम्पदं वर्णयन्नाह। सम्पूर्णमण्डलशशाङ्ककलाकलाप
शुभ्रा गुणास्त्रिभुवनं तव लवयन्ति। ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं
कस्तान् निवारयति सञ्चरतो यथेष्टम्? ॥१४॥ दण्डान्वयः - हे त्रिजगदीश्वर ! सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः तव गुणाः त्रिभुवनम् लङ्वयन्ति, ये एकम् नाथम् संश्रिताः तान् यथेष्टम् सञ्चरतः कः निवारयति।
हे त्रिजगदीश्वर ! -हे त्रिभुवनस्वामिन्! तव गुणास्त्रिभुवनं लश्यन्ति इति सम्बन्धः।
'लङ्घयन्ति' इति क्रिया, अतिक्रामन्ति इत्यर्थः। के कर्तारः? 'गुणाः', स्वभावजा ज्ञानादयोऽपि विभावजा औदार्यादयो धर्माः। किं कर्मतापन्नम्? 'त्रिभुवनं' जगत्त्रयम्। किंवि. गुणाः? ‘सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः' सम्पूर्णमण्डलः-पूर्णिमासमुद्गतः शशाङ्क:-चन्द्रस्तस्य कला-अंशास्तेषां कलापः-समूहः तद्वदुज्ज्वलाः।
अत्र अन्योक्तिहेत्वलङ्कारयोः सङ्करेणाह-ये एकं नाथं संश्रिताः इत्यन्वयः। 'संश्रिताः' इति क्रियापदम्। के कर्तारः? 'ये' जनाः। कं कर्मतापन्नम्? 'नाथं' स्वामिनम्। किंवि. नाथम्? “एकं' अद्वितीयं-असाधारणम्। यत्तदोर्नित्याभिसम्बन्धात् तान् जनान् को निवारयति? इत्यन्वयः।
का २३ |