SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। ते वक्त्रम् क्व? कलङ्कमलिनम् निशाकरस्य बिम्बम् क्व? यद् वासरे पाण्डुपलाशकल्पम् भवति। द्वौ क्वशब्दौ महदन्तरं सूचयतः। हे नाथ ! ते-तव वक्त्रं-मुखं क्व? चपुनः तत् निशाकरस्य बिम्बं क्व वर्तते? इत्यन्वयः। अनयोः सर्वथा सामान्य लौकिकप्रतिपादितं युक्त्या न घटते एवेति वाक्यार्थः। 'वर्तते' इति क्रियापदम्। किं कर्तृ? 'वक्त्रं' वदनम्। कस्य? 'ते' तव। किंविशिष्टं वक्त्रम्? 'सुरनरोरगनेत्रहारि' सुरा-देवा नरा-मनुष्या उरगा-नागकु मारा देवाः, उपलक्षणाद् भवनपति-व्यन्तर-ज्योतिष्कादयः, तेषां नेत्राणिनयनानि हरति-आक्षिपति-रञ्जयतीत्येवंशीलम्। पुनः किंवि. वक्त्रम्? 'निःशेषनिर्जितजगत्रितयोपमानं' वक्त्रस्य उपमानानि कमल-चन्द्र-दर्पणादीनि सर्वाणि तानि निर्जितानि-अवगणितानि, तेभ्योऽधिकशोभाकारित्वात्। द्वितीयान्वयेऽपि “वर्तते'(इति) क्रियापदम्। किं कर्तृ? 'बिम्बं' मण्डलम्। कस्य? 'निशाकरस्य' चन्द्रस्य । किंवि. बिम्बम्? 'कलङ्कमलिनं' श्यामतारूपदूषितम्। तदिति किं तत्? बिम्बं वासरे पाण्डुपलाशकल्पं भवतीत्यन्वयः। 'भवति' इति क्रियापदम्। किं कर्तृ? “बिम्बम्'। किंवि. बिम्बम्? 'पाण्डुपलाशकल्पं' जीर्णपत्रतुल्यम्। कदा? 'वासरे' दिवसे ॥ अथ समासा :- सुराश्च नराश्च उरगाश्च सुरनरोरगाः, सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि, तानि हरतीति सुरनरोरगनेत्रहारि । अत्र उद्गीर्ण - यष्टि-उपलादिशब्दवत् हृधातोरपि मनोहरेत्यादौ अर्थविशेषप्रत्यायकत्वेन औदार्यगुणकारित्वान्न दुष्टता। त्रयोऽवयवा अस्य त्रितयं, जगतस्त्रितयं जगत्रितयं, जगत्रितये उपमानानि जगत्रितयोपमानानि, निर्गतं शेषादिति निःशेषं तत्पुरुषः, निःशेषं निर्जितानि जगत्रितयोपमानानि येन तनिःशेषनिर्जितजगत्रितयोपमानम्। कलङ्केन मलिनं कलङ्कमलिनम्। कलङ्केतिपदं दोषाभिप्रायसूचकम्। निशां करोतीति निशाकरः, 'संख्याहर्.' इत्यादि सिद्धहेम (अ. ५, पा. १, सू. १०२) सूत्रात् टप्रत्ययः, तस्य निशाकरस्य। पाण्डु च तत् पलाशं च पाण्डुपलाशं, ईषद्-असमाप्त ना २२ जा
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy