________________
॥श्री भक्तामरस्तोत्रम् ।।
अथ समासा :- त्रयाणां भुवनानां समाहारस्त्रिभुवनं, पात्रादित्वान्न ईप्, द्विगुसमासः, एकं च तल्ललाम च एकललाम त्रिभुवने एकललाम त्रिभुवनैक ललाम, त्रिभुवनैकललाम्नो भूतः- तुल्यस्त्रिभुवनैकललामभूतः, भूतशब्द उपमार्थे, तस्यामन्त्रणे हे त्रिभुवनैकललामभूत !! रागस्य रुचिः रागरुचिः, शान्ता रागरुचिर्येषु ते शान्तरागरुचयस्तैः, यद्वा शान्तो नाम नवमरसस्तस्य रागःपरमा प्रीतिस्तस्य रुचिर्येषु ते तथा तैः। परमाश्च ते अणवश्च परमाणवस्तै निर्मापित इत्यत्र ण्यन्तत्वेन परमाणुभिरित्यत्र करणे तृतीयाव्याख्यानादीश्वरकर्तृकत्वं यद्यप्याक्षेपाल्लभ्यते, तथापि संवाहयतीत्यादिषु स्वार्थेऽपि ण्यन्तत्वस्य उचितत्वात् तत्तद्रव्यक्षेत्रकालभावानां साचिव्येनैव कार्यद्रव्योपपत्तेरीश्वरकल्पनाया अन्यथासिद्धत्वाच्च, अत एव शान्तरागरुचिभिरित्यत्र न ण्यन्तत्वम्, ईश्वरकर्तृकत्वे तु तत्रापि ण्यन्तत्वप्रसङ्गादित्यन्यत्र विस्तरः। ललामेति तिलकस्थानीयं माल्यं ललाम उच्यते। 'प्रभ्रष्टकं शिखालम्बि, पूरोन्यस्तं ललामकं' (अभि. का. ३, श्लो. ३१६) इति श्रीहेमसूरयः।
“ललाम च ललामं च, लाम्बनध्वजवाजिषु ।
मृगे प्रधाने भूषायां, रम्ये वालधिपुढयोः॥१॥" इति विश्वः। इति द्वादशवृत्तस्यार्थः ।। १२।।
અર્થ: હે ત્રણ ભુવનના અદ્વિતીય લલામ તુલ્ય ! શાન્ત રસથી ચમકતા જે પરમાણુઓવડે આપ નિર્માયા છો, તે પરમાણુઓ પણ પૃથ્વીને વિષે નિચ્ચે તેટલા જ છે, કારણ કે આપની સમાન બીજું રૂપ નથી.
* * * अथ भगवद्रूपैकदेशेनापि उपमानामसाम्यमाह - वक्त्रं क्व ते सुरनरोरगनेत्रहारि
निःशेषनिर्जितजगत्रितयोपमानम्। बिम्बं कलङ्कमलिनं क्व निशाकरस्य
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ दण्डान्वयः - सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम्
का २१ ।