________________
॥श्री भक्तामरस्तोत्रम् ।।
श्रीचन्द्रसूरिप्रवरा बभुस्ते यद्भातरः श्रीविमलेन्दुसंज्ञाः ॥२॥ - इन्द्रवज्रा तत्पट्टे जिनभद्रसूरिगुरवः सल्लब्धिलब्धप्रभाः सिद्धान्ताम्बुधिकुम्भसम्भवनिभाः प्रेक्षन्मनीषाशुभाः । जातः श्रीगुणशेखराभिधगुरुस्तस्मात् तपोनिर्मल: शीलश्रीतिलको जगत्तिलक इत्यासीद् गुरुग्रामणीः ॥३॥ शार्दूल० सद्गद्यपद्यसुकविः कवितत्त्वधाता चारित्रचारुकरणः करणास्तकामः । तत्पट्टभूषणमणिर्गतदूषणोऽभूत् श्रीमान् मुनीन्द्रगुणचन्द्रगुरुर्गरिष्ठः॥४॥
- वसन्त० सम्प्रत्यवनौ जयिनां, निर्देशादभयदेवसूरीणाम् । गुणचन्द्रसूरिशिष्यो, गुणाकरः सूरिरल्पमतिः ॥५॥ - आर्या अद्भुतमहतीर्दधतीं, बहुश्रुतमुखश्रुताः प्रभावकथाः । भक्तामरस्तवस्या-भिनवां वृत्तिं व्यधादेनाम् ।।६॥ - आर्या वर्षे षड्विंशाधिक-चतुर्दशशती (१४२६) मिते च वर्षौ । मासि नभस्ये रचिता, 'सरस्वती' पत्तने वृत्तिः ॥७॥ - आर्या यद् गदितमर्थकूटं, यल्लक्षणशब्दतश्च दुष्टमिह । तत् साधुभिः सुधीभिः, शोध्यं सद्यः प्रसद्य मयि ॥८॥ - आर्या भक्तामरस्तवाक्षर- विवृत्तिं कृत्वा यदर्जितं सुकृतम् । तेनासौ सुकृतिजनो, निरामयः स्यात् सदाऽऽनन्दी ।।९॥ - आर्या पञ्चदशशतान्यत्र द्वासप्ततिसमधिकानि गणितानि । निःशेषवर्णवृन्दा- न्यनुष्टुभां प्रायशः सन्ति ॥१०॥
ग्रन्थाग्रं १५७२ सकलाक्षरगुणनयेति ॥ इति सम्पूर्णा भक्तामरस्तवविवृत्तिः ।।
* * *
BHARAT GRAPHICS New Market, Panjarapole, Relief Road, Ahmedabad-1
| Ph. : 079-22134176, M : 9925020106
ना २०० |