SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ॥ સ્થાને સંતોષ પામતી નથી (જેમ) ક્ષીરસાગરના ચન્દ્રકિરણ જેવા ઉજ્જવળ દૂધ પીને કયો માણસ લવણસમુદ્રનું ખારું પાણી પીવાને ઇચ્છે? *** अथैतादृग् रूपातिशयः कुत इत्याशङ्कानिरासाय प्राह - यै: शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! | तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ दण्डान्वय :- त्रिभुवनैकललामभूत ! शान्तरागरुचिभिः यैः परमाणुभिः त्वम् निर्मापितः ते अपि अणवः पृथिव्याम् खलु तावन्तः एव यत् ते समानम् अपरम् रूपम् नहि अस्ति। त्रिभुवनैकललामभूत ! हे जगत्त्रितयाद्वैततिलकोपमान ! यैः परमाणुभिस्त्वं निर्मापितः असि इत्यन्वयः । 'असि' इति क्रियापदम्। कः कर्ता ? 'त्वम्'। किंवि. ? 'निर्मापितः ' सम्पादितः । कैः कर्तृभिः ? 'परमाणुभिः । कः कर्मरूपः ? ' त्वम्'। किं विशिष्टैः परमाणुभिः ? 'शान्तरागरुचिभिः' व्यपगतरागकान्तिभिः । 'खलु' निश्चितम्। ते अणवः पृथिव्यामपि तावन्त एव सन्तीत्यन्वयः । 'सन्ति' इति क्रियापदम्। के कर्तारः ? 'अणवः' सूक्ष्मा निर्विभागा भागाः । किंविशिष्टा अणवः? ‘तावन्तः ' तत्परिमाणाः, त्वद्देहनिर्माणपरिमेयाः । कस्याम् ? 'पृथिव्यां' भूमौ । कथम्? 'अपि' । अत्र हेतुमाह यद् यस्मात् कारणात् ते तव समानं अपरं रूपं हि निश्चितं न अस्ति इत्यन्वयः । - 'अस्ति' इति क्रियापदम् । किं कर्तृ? 'रूपम्', आकृतिविशिष्टः पिण्डः । किंविशिष्टं रूपम् ? 'समानं' तुल्यम् । कस्य? 'ते' तव । यदि च त्वद्देहनिर्माणहेतुपरमाणुभ्योऽधिका अणवो भवेयुस्तर्हि तन्निर्मितमन्यदपि रूपं भवेत्, न चैतदस्ति, तस्मात् ते अणवोऽपि तावन्त एवेत्यनुमानालङ्कारः : ॥ २०
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy