________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
पानास
नवोढा तु विवोढारं व्रजन्ती भर्तुः सौभाग्यं विवृणोतितरां (इति) लक्ष्म्यभिगमनेनोक्तं भवति । स्तोत्रेऽप्यधीति जनः सौभाग्यकलितः श्रिया सदा समाश्रयिष्यते इति तात्पर्यार्थः । अत्र पुष्पमालाशब्दोऽभीष्टशकुनत्वेन महोत्सवानन्दहेतुः । उक्तमागमेऽपि
"समणं संजय दंतं, सुमणं मोयगा दहिं ।
मीणं घंटं पडागं च, सिद्धमत्यं वियागरे ॥१॥" - अनु० शकुनार्णवेऽपि -
"पद्मिनी राजहंसच, श्वेतभिक्षुतपोधनाः ।
यं देशमुपसर्पन्ति, तत्र देशे शुभं वदेत् ॥॥" - अनु० पुष्पेषु प्राधान्यं पद्मानामिति । चतुर्दशस्वप्नेष्वपि कुसुमस्रक् प्रशस्या । तीर्थकृदाहारविहारसमवसृत्यवसरे कुसुमवृष्टिः शुभकृदुक्तेति विचार्यम् । स्तवान्ते लक्ष्मीशब्दो माङ्गल्यार्थवाची। तेन स्तोत्रं पिपठिषूणां शुश्रूषूणां व्याचिख्यासूनां निदिध्यासनां च पुरुषाणामास्तवसमाप्तेरनारतं कल्याणपरम्परा भविष्यतीत्यर्थः । अथ (वा) प्राणिनां प्रतिष्ठाहेतुः श्रीरेव । उक्तं च
"वारांराशिरसौ प्रसूय भवती रत्नाकरत्वं गतो विष्णुस्त्वत्पतितामवाप्य भुवने जातस्त्रिलोकीपतिः । कन्दर्पो जनचित्तनन्दन इति त्वन्नन्दनत्वादभूत्
सर्वत्र त्वदनुग्रहप्रणयिनी पद्मे ! महत्त्वस्थितिः ॥१॥"- शार्दूल० अन्योऽपि शुभोऽर्थः सुधीभिः स्वधिया व्याख्येयः । इति चतुश्चत्वारिंशद्वृत्तार्थः सम्पूर्णः । तत्सम्पूर्ती सम्पूर्णेयं भक्तामरस्तववृत्तिः सप्रभावककथानिकासंयुक्ता ।।
(अथ प्रशस्तिः - ) गिरां गुम्फधात्री कवीन्द्रेषु वाणी चतुर्वर्णवर्ण्यश्चतुर्वर्णसङ्घः । गुरुश्चानुशास्ता सुधीः श्रोतृवर्गो जयेयुर्जगत्याममी आसमुद्रम् ॥१॥- भुजङ्ग० श्री 'चन्द्र' गच्छेऽभयसूरिवंशे श्री ‘रुद्रपल्लीय' गणाब्धिचन्द्राः ।
ना १९९ |
-