________________
॥ श्री भक्तामरस्तोत्रम् ॥
वचनात् मानतुङ्गं - साहङ्कारं तं समुपैति ।। इति चतुर्थोऽर्थः ॥ ४ ॥
अथ (वा) यः सामान्योऽपि पुष्पदाम धारयति स लक्ष्मीवान् स्यात् । अथ यो अमया अलक्ष्म्या कलितोऽपि जनो भक्त्या बहुविधरतभङ्गया गुणैः- माधुर्याद्यैर्निबद्धां - स्ववशीकृतां रुचिरवर्णविचित्रपुष्पां - कान्तवपुर्द्युतिविशिष्टतिलकमाल्याभरणां, चित्रस्तिलक उच्यते, स्रजमिव कामिनीमिति गम्यम्, कण्ठगतां धत्ते - परिरभते, निरन्तरं भजत इत्यर्थः । लक्ष्मीस्तं मानतुंगं पुरुषगणनागण्यं समायाति अवशा - तदधीना ।। इति पञ्चमोऽर्थः ||५||
पुष्पधारणाद् वरस्त्रीसेवनात् दरिद्रोऽपि पुमान् श्रीमान् स्यात् । उक्तं च "शिरः सपुष्पं चरणौ सुपूजितौ वराङ्गनाऽसेवनमल्यभोजनम् ।
अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति ॥ १॥ - वंश० अथ (वा) यः पुमान् स्वयंवरे तद्गुणरञ्जितपतिं वराक्षिप्तां भक्त्यारचनया मया-शोभया गुणैः सुवर्णसूत्रैर्निबद्धां-नद्धां चारुरुचिनानाविधकुसुमां स्तोत्रमिव स्रजं मालां कण्ठगतां धत्ते, लक्ष्मीरिव लक्ष्मीः श्रीसमरूपा स्त्री अवशा- कामविह्वला तं मानतुं वपुः प्रमाणप्राप्तं सरलसर्वलक्षणपूर्ण समुपैति दूरादपि तत्पार्श्वमायातीत्यर्थः । इति षष्ठोऽर्थः ॥ ६ ॥ अनेन पुरुषस्य सौभाग्यातिशयः प्रकाशितः । अन्यथा पतिमनुसरन्ती प्रौढाऽपि स्त्री मानहीना दुःखिता स्यात् । उक्तं च
" गम्मइ पियस्स पासे, सुप्पइ सिच्छाय (इ) दिज्जए अहरो ।
विसएहिं पिज्जइ महू दुक्खे दियहा गमिज्जन्ति ॥ १॥" - आर्या ० ध्वनिरिह पत्यनुसरणं मानिन्याः, प्रौढस्त्रीणां स्नेहो वर्धत एवाहरहः ।
-
उक्तं च -
" जम्मन्तरे न विहडइ पोढमहिलाण जं कियं पिम्मम् ।
कालं (लिं)दि कण्हविरहे अज्जवि कालं जलं वहइ |१||" - आर्या०
१९८