________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
अथ स्तवप्रभावसर्वस्वमाह - स्तोत्रेत्यादि
हे जिनेन्द्र ! - केवलिपते ! इह-जगत्यां यो जनोऽजस्रं अनवरतं तव स्तोत्रं-तव संस्तवनं बहुपदसन्दर्भितत्वात् स्रगिव स्तोत्रस्रक् तां स्तोत्रमालां कण्ठगतां धत्ते कण्ठपीठलुठितां करोति पठतीत्यर्थः । किंभूताम्? भक्त्या-भावपूर्वं मया श्रीमानतुङ्गसूरिणा गुणैः-पूर्वोक्तैर्ज्ञानाद्यैर्निबद्धां रचिताम्, अथ (वा) जिनेन्द्रगुणैः-अर्हद्गुणैः स्वयंबुद्ध(त्व)सहजवैराग्यादिभिर्निबद्धां-गुम्फितां, रुचिरा-मनोज्ञा वर्णा अकाराद्या द्विपञ्चाशदेव विचित्राणि यमकानुप्रासश्लेषद्वयर्थव्यङ्ग्यादिविशेषेणाद्भुतानि स्पृहणीयाश्रयणीयतया पुष्पाणीव यस्यां ताम् । लक्ष्मीः-राज्यस्वर्गापवर्गसत्का श्रीरवशा - तद्गतचित्ताऽवश्यं तं मानतुङ्गं चित्तोन्नत्युन्नतं स्तोत्रकविं वा समुपैति
समन्तात् पार्श्वमायाति । इति प्रथमोऽर्थः ।।१।। ___ अथ (वा) यो भक्त्या-विच्छित्या गुणैः-सूत्रतन्तुभिर्निबद्धां-ग्रथितां
मानमा तया मया प्रमाणेनोपलक्षितां रम्यपञ्चवर्णाद्भुतकुसुमां तव स्तोत्रमिव स्रजं-वनमालां लुप्तोपमया पुष्पमालां कण्ठगतां धत्ते-धारयति लक्ष्मीः-शोभा अवशा-निश्चितं तं मानतुङ्ग-प्रतिष्ठाप्राप्त्युच्चं समुपैति। इति द्वितीयोऽर्थः ॥२॥ ___ अथ (वा) यः स्तोत्रमिव स्रजं-वनमालाम्, लुप्तोपमा सर्वत्र ज्ञेया,
मया-पद्मया भक्त्या अनरागेण जिनो-विष्णरेव इन्द्रः-पतिस्तस्य गणैजिनेन्द्रगुणैः प्रभुत्वादिभिर्निबद्धां-न्यस्तां चारुद्युतिवैविधसन्तानकादिकुसुमां कण्ठगतां धत्ते लक्ष्मीः-वार्धिकनी अः-कृष्णः तस्य वशा-योषित् केशवकलत्रं तं मानतुड्ग-साभिमानं पुरुषोत्तममायाति ।। इति तृतीयोऽर्थः।।३।। ___ अथ (वा) जिनो-विष्णुः इन्द्रः - सुरेन्द्रस्तयोर्गुणैः-शौर्येश्वर्यादिभिरुपलक्षितो विक्रमी परमेश्वरो यः पुष्पमालां प्रोक्तस्वरूपां कण्ठगतां बिभर्ति, लक्ष्मीः-सकलभूमिश्रीः अवशा-तदायत्ता “वीरभोज्या वसुन्धरा'' इति
ना १९७ |