________________
॥ श्री भक्तामरस्तोत्रम् ॥
वारितौ देव्या । रक्षाप्राहरिकास्तावदैयरुः । तौ तथैव दृष्ट्वा जग्मुः । देवीदर्शितसोपानपथेन दुर्गमारूढौ समुत्प्लुत्याधः पतितौ पट्टदुकूलच्छनहंसरोमशय्योपरीव । ततश्चेलतुः स्वग्रामं प्रति । साऽपि राजचमूः केटकेऽलगत्। तौ समायान्तीं सेनामपश्यताम् । सा न पश्यति स्म तौ । कटकं शाकम्भरीमजयमेरुदुर्गं च यावद् यात्वा व्यावर्तितम् । रणपाल: सनन्दनः श्रेयसा स्वस्थानमाशिश्राय । 'चित्रकूट 'दुर्गे चिरं स्वकुटुम्बयुक् सुखमन्वभूद् धर्मं च पालयामास ।। ॥ इत्यष्टाविंशी कथा ।।
अथाष्टभीनाशेन स्तवं संक्षिपन्नाह (ग्रं० १५०० ) - मत्तेत्यादि हे अमेयमहिमन् ! तस्य प्राणिनो भयं - भी: आशु- शीघ्रं भियेवभयेनेव नाशं उपयाति-ध्वंसमायाति, यो मतिमान् - सप्रज्ञः पुमान् तावकंभवदीयम् इमं-प्रागुक्तस्वरूपं स्तवं स्तोत्रम् अधीते - पठति । किंभूतं भयम् ? मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरश्च बन्घनं च तेभ्य उत्था- उत्पत्तिर्यस्य तत् । भवतः तव मन्त्राध्यायप्रभविष्णु प्रभावयुतान्नराद् भयस्यापि भयं भवतीति युक्तोत्प्रेक्षा । भयभेत्तृत्वादैहिकार्थकृत्वादन्यसुरवत् तीर्थकृदपीति न चिन्त्यम् । यतो बुद्धस्य सिद्धस्य क्षीणकर्मणो भगवतः स्मरणात् तुष्टाः सद्भक्तसुराः सर्वमर्थं सम्पादयति । वीतरागध्यानान्मुक्तिरेव मुख्यं फलम्, अन्यत् प्रासङ्गिकं, कृषेः पलालवदिति । अथ -
" अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् ।
>
चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ? || १ ||" अनु०
अत्र बहु वक्तव्यं तत् स्वधिया विचार्यं सुधीभि: ।। इति वृत्तार्थः ॥ ४३ ॥
***
१. कारायाः-बन्धनस्य ओक :- गृहम् ।
१९६