________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
महोद्भटतया म्लेच्छानां हृदि शल्यमिवासीत् । एकदा 'अजयमेरु' दुर्गसस्थदुष्टमीरेण छलं लब्ध्वा स बद्धः सपुत्रः। कलियुगदुर्विलसितमेतत् । उक्तं च - 'सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा प्रियन्ते जनकश्चिरायुः । परेषु मैत्री स्वजनेषु रोषः पश्यन्तु लोकाः कलिखेलितानि ।।१।। - इन्द्र० सङ्कुचन्ति कलौ तुच्छाः, प्रवर्धन्ते महाधियः। ग्रीष्मे सरांसि शुष्यन्ति, कामं वार्धिस्तु वर्धते॥२॥" - अनु.
अतो नाचलत् मनो धर्मात् तस्य महाशयस्य। सपुत्रश्चालितो 'योगिनी' पुरं प्रति प्राप्तश्च। तदा जलालदी(लुद्दी?)नसुरत्राणो राज्यं करोति । तेन जीर्ण'दिल्ली'दुर्गमध्ये गाढश्रृङ्खलनिगडैर्बद्धो बन्दौ क्षेपितः सपुत्रः। तत्र रणपाल: शुचिर्भक्तामरस्तवस्य द्विचत्वारिंशं वृत्तं दध्यावहनिशम्। दशसहस्त्यां पूर्णायां निशीथिन्यां रणरणन्नूपुररवोज्जीवितमदना मणिमयमेखलाकलापकिङ्किणीक्वाणवशीकृतत्रिभुवना स्थूलनिस्तुलनिर्मलमुक्ताफलहारावलिदासीकृततारकव्राता कमलमृदुलसरलकराङ्गुलिपरिहितोर्मिकारत्नकान्तिर्दर्शनपूरितमानवसमीहितजाता भ्रमरश्रेणिकरणिवेणिदण्डमिषसेवकीकृतनागलोका श्रृङ्गारश्लोका काचिद् रमणी तरुणी रमणीयरूपा-वत्स ! (शीघ्रं) शीघ्रमुत्तिष्ठेति जल्पन्ती तत्पुरः प्रादुर्भूता । रणपालोऽजल्पत्- जननि ! का त्वं? देवी वा मानवी वा विद्याधरी वा? साऽवदत्गरुडवाहना श्रीयुगादिजिनभक्ता भक्तामरस्तोत्रस्मर्तुरक्षाकरी सुरी चक्रेश्वरी वर्तते, तस्या अहं किङ्करी प्रतिहारी त्वद्वन्दिमोचनाय प्रोषिताऽस्मि चक्रेश्वरीस्वमिन्येति । रणपालोऽरणत्-देवि ! त्वमेव मे चक्राधिकाऽसि, परं कथमुत्तिष्ठामि करचरणनियन्त्रितोऽ हम्? देव्युवाच-स्पृश करचरणौ। सोऽस्पाक्षीत्, पुर:पतितनिगडाष्टीलकुलमद्राक्षीत् । पुत्रस्याप्यपतन् बन्धनानि । स्वयमुदघटिष्ट कारौक: 'कपाटसम्पुटम् । तावुत्तिष्ठन्तौ १ कारागृहे ।
ना १९५
-