SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ।। इति विबुध्य मानगिरिनृपः कलावतीदुहितरमानाय्यापूजयत्। क्षमिता च। सर्वे सुखभाजनं बभूवुः। राजहंसो राजा जिनधर्ममाराधयत् प्रभावतीप्रतिबोधवचसा श्रीउदायिचरमराजर्षिवत् कलावतीपुण्यकथनेन। चिरं सुखिताभूत् कलावती ।। ॥ इति सप्तविंशतितमी कथा ।। * * * अथ बन्दिबन्धनभयं नुदन्नाह - आपादेत्यादि हे अप्रतिचक्राचर्चितचरण ! आपादकण्ठं - पदगलं यावद् उरुश्रृङ्खलवेष्टिताङ्गाः - गुरुलोहदामव्याप्तवपुषः गाढं - निबिडं बृहन्निगडकोटिनिघृष्टजवाः - विकटाष्टीलाग्रकषितनलकिनीका मनुजा:नराः त्वन्नाममन्त्रं - ॐ ऋषभाय नमः इति पदं अनिशं सदा जपन्तोध्यायन्ते सद्य:-तत्कालं स्वयं-आत्मनैव विगतबन्धनभया:-ध्वस्तबन्धशङ्का भवन्ति-जायन्ते । इति वृत्तार्थः ॥४२॥ एतस्य महिमा पूर्वं श्रीमानतुङ्गाचार्याणां निबिडनिगडश्रृङ्खलाजालभञ्जनादभूत्। तदा त्वनेकेषां राजनियोगिनां ३लोहान्दुकत्रुटि: (राजवृन्देच्छुटि:) "म्लेच्छुलुप्तसुरवात-प्रभूतातिशये कलौ। रणपालस्य सञ्जातं, निबिडान्दुकभञ्जनम्॥१॥"- अनु. ___ श्री अजयमेरु' दुर्गपरिसरबहुग्रामग्रामणी: सहजदानविनयगुणप्रीणितदर्शनिमालो(?) रणपालोऽजनि राजपुत्रः । "अन्नदानं महादानं, प्रणामो दर्शनेषु च। अविरुद्धं द्वयं चैतत्, कर्तुमहिमहेतवे।।शा" - अनु. इति पद्यं बह्वमंस्त । स च जैनमुनिसङ्गत्या भद्रकस्वभावो भक्तामरस्तवं पञ्चपरमेष्टिमन्त्रमपाठीत् । श्रीयुगादिजिने भक्तिभरः स्तवमहिमार्थवेत्ता च स धर्मपालकतया साधूनां चेतसि शतपत्रमाल्यमिव १ अष्टीला = दृषद्विशेषः । २ नलकिनी = जङ्घा । ३ अन्दूकं = श्रृङ्खला। का १९४ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy