________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
" दिनानां च निशानां च, यथा ज्योतिर्विभूषणम् ।
सतीनां च यतीनां च, तथा शीलं विभूषणम् ॥१॥" - अनु. इत्युक्ते विदितसर्वतत्स्वरूप: कुलीनेयमिति जोषं स्थित: तुतोष च । (तौ द्वावपि) प्रातः प्रयाणं चक्रतुः। मध्याह्ने तस्थतुः तरुतले पत्युः शय्या कृता (कलावत्या) । तस्मिन् शयाने सा पवित्रा पतिरोगोपशमनोपायं मार्गयमाणा भक्तामरस्तवैकचत्वारिंशद्वृत्तगुणनावसरे पत्युरुदरान्मुखे सर्पमुखं निःसृत्यास्थात्, आसन्नवल्मीकाग्रादपरं सर्पमुखं च। उभावपि भुजगौ चक्राधिष्ठितावन्योऽन्यं विवदन्तौ मर्म निजं निजमूचतुः। वल्मीकसर्प आह-रे दुराचार ! सत्पुरुषरुपविनाशक ! यदि कश्चन राजिकाम् अत्यम्लतक्रेण सहास्मै दत्ते, तदा त्वं स्थानाद् यासि । उदरसर्प आह-रे सञ्चयकर ! कदर्यवत् कश्चित् त्वद्विलेऽत्युष्णं तैलं क्षिपति, तदा त्वदधिष्ठितं निधानधनं स विलसति, त्वं च विलीयसे इत्युक्त्वा स्वं स्वं स्थानमीयतुः सौ । कलावती सर्वं ददर्श शुश्राव च। प्रत्यक्षीभूय चक्रेश्वरी स्तवजापप्रभावान्मयैतच्चक्रे इत्युक्त्वाऽन्तर्दधौ। सा तत्र स्थिता आसन्नगोकुलात् तक्रराजिकापानाद् भर्तुव्याध्युपशमं विदधे। स्वभावरुपो 'जातरूपसमदेहकान्तिर्जातो राजहंसः। पत्ये कथयित्वा तैलक्षेपान्निधानं ललौ। तत: कलावती चक्रेश्वरीप्रभावाद् उरगयोर्नरवागभवदिति भत्रेऽभणत्। स तत्पृष्टः स्वपितृजन्मादिकमभाणीत्। तयोक्त: स्वराज्यमभजत्। सधनं भार्यासनाथं तं दृष्ट्वा तुष्टो राजशेखरनृपतिः। कुमारस्य कमलाराज्ञीदुर्विलसितमिति ज्ञात्वा दूरीकृत्वा सा। राजहंसस्य क्रमेण राज्यमभवत्। श्वशुरेणापि शुद्धिर्लब्धा । मानान्निवृतं चित्तम्। सर्वैः स्वकर्म भुज्यते इत्यङ्गीकृतं पुत्र्या वचः । उक्तं च - " सव्वो पुवकयाणं, कम्माणं पावए फलविवागम् । अवराहेसु गुणेसु अ, निमित्तमत्तं परो होइ ॥॥ आर्या सुखस्य दुःखस्य न कोपि दाता परो ददातीति कुबुद्धिरेषा । पुरा कृतं कर्म सदैव भुज्यते शरीर ! हे निस्तर यत् त्वया कृतम् ॥२॥"
- उपेन्द्र० १ सुवर्णम् ।
ना १९३ जा