________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
C
.
दंशमशकादिकमरक्षताम्। प्रातः स्वामिपार्श्वभुवं प्रमाय॑ नलिनीदलानीतनीरेणाभ्यषिञ्चताम्। बकुलकमलपाटलादिकुसुमप्रकरं विस्तार्य चरणावभ्य
उस्मद्वाञ्छितदो भवेत्युक्त्वा नमोऽकार्टाम्। उभयपार्श्वयोरसिधरौ तीर्थनाथमसेविषाताम्। एवं मध्यंदिने सन्ध्यायामपि वन्दित्वा कामितमयाचताम्। इत्थं जङ्गमं तीर्थं समाश्रयतोर्नमिविनम्योर्गतः कियान् कालः ॥
एकदा धरणेन्द्रश्चलितासनः स्वामिनं निमंसिषुरैत्। नमस्कृतो भावसारं भगवान् स्तुतश्च, तावपश्यत्। कौ युवां किमर्थं परमगुरुसेवायै लग्नावित्यपृच्छत्। तावूचतुः - भो महाशय ! कच्छमहाकच्छसुतौ नमिविनमी क्षत्रियावावाम्। राज्यार्थं नाथं सेवितुमारभावहि। पातालेन्द्रोऽवदत् - निरीहो निर्ममो मुक्तसर्वसङ्गो भगवान् किं वितरिष्यति? निर्धनात् का धनप्राप्तिः ? न च कस्मै रुष्यति न तुष्यति नीरागत्वादसौ । भरतं भजत । स सकाञ्चनस्तुष्टो राज्यांशं युवाभ्यां दास्यति । तौ स्माहतुः - शृणु भो ! स्वामी यादृक् त्वयोक्तस्तादृगस्तु। आवाभ्यां वाञ्छितायासावाश्रितः, सफलो भवतु मा भवतु वा, भरतं न सेवावहे । कल्पवृक्षं मुक्त्वा कः 'कर्कन्धूं स्वीकुरुते? काञ्चनं त्यक्त्वा क आरमादत्ते ? चिन्तामणिं हित्वा कः कर्करकं ग्रन्थौ बन्धाति? रत्नाकरं विहाय को लवणाकरं श्रयते? इति जानीहि । इहामुत्रावयोः स्वाम्ययमेव। फणीन्द्रस्तयोरद्वितीयां भक्ति मत्वा श्रीऋषभरूपं विकृत्याष्टचत्वारिंशत् सहस्राणि मन्त्रानगदत् । रोहिणीप्रमुखाः साम्नाया देव्यः प्रत्यक्षीकृत्य दत्तास्तेन वैताढ्ये दक्षिणोत्तरश्रेणौ पञ्चाशत्षष्टिपुरस्थापना कृता खेचरतामगातां तौ। धरणेन्द्रः सर्वां स्थितिं कृत्वा नागनिकायमगमत्। तत्सम्बन्धिनः स्वजनाः सर्वे विद्याधरतां प्रापुः । तौ विमानयानसमानश्रीप्रौढौ नव्यदिव्यविमानारूढौ भरतभूपायात्मानं दर्शयित्वा दक्षिणश्रेणौ रथनूपुरचक्रवालपुरे श्रीनमिः, उत्तरश्रेणी १. बदरीम् । २. पित्तलम् ।
ना १२५
-