________________
॥श्री भक्तामरस्तोत्रम् ॥
गगनवल्लभपुरे विनमिश्च राज्यमकुरुताम्। निरुपमभोगैर्बहुकालं निर्गमय्य विद्याधरेन्द्रपदं स्वपुत्राभ्यां दत्त्वा गृहीतव्रतौ कोटीद्वयेन मुनीनां सहितौ श्रीशत्रुञये श्रीनाभेयजिनलब्धं सिद्धिपदं प्रापतुः । इत्याश्रितं स्वतुल्यं कुर्वते प्रभवः ।। इति वृत्तार्थः ।।१०।।
अथ जिनदर्शनफलमाह - दृष्टेवत्यादि हे प्रसन्नरूपस्वरूप ! अनिमेषेण-निर्निमेषेण विलोक्यते -दृश्यत इत्यनिमेषविलोकनीयस्तं भवन्तं -त्वां दृष्ट्वा - वीक्ष्य जनस्य द्रष्टुर्भव्यस्य चक्षुः - नेत्रं अन्यत्र-देवान्तरे न तोषं-चित्तानन्दमुपयाति-उपैति उमास्वातिवाचकवत्। सोऽदृष्टपूर्वां जिनमूर्तिं दृष्ट्वा स्तुतिं पठितवान्
"वपुरेव तवाचष्टे, भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ, तरुर्भवति शाद्वलः ॥शा" - अनु० ततोऽन्यत्र - शिवादौ विरक्तो जिनधर्मदर्शनासक्तोऽभूदुमास्वातिर्द्विजसूनुरात्तव्रतः सूरिपदमाप। क्रमात् पूर्वगतवेत्ता वाचकोऽभूत्।। चक्षुरिति जातावेकवचनम्। ध्यानिनो भवन्मुद्रास्वरूपावबोधार्थं स्थिरीभूय निर्निमेषदृशस्त्वां पश्यन्तोऽपरसुखेष्वरुचिं दधतीत्यर्थः । अत्रोपमा - कः पुरुषो दुग्धसिन्धोः - क्षीरसमुद्रस्य पयो-दुग्धं पीत्वा जलनिधेः - लवणाम्भोधेः क्षारं - कटुकं जलं रसितुं-स्वादितुं-पातुमिच्छेत् ? अपितु न कोऽपि। दुग्धसिन्धोः पयः किंभूतम्? शशिनः करस्तद्वद् द्युतिर्यस्येति शशिकरद्युति- चन्द्रकरनिर्मलम् । तीर्थकृद्रूपदर्शनं क्षीरसागरपयः पानसमं, अपरदेवरूपदर्शनं क्षारसमुद्रोदकस्वादसमानमिति वृत्तभावार्थः ।।११।।
मन्त्रश्चायम् - ___ॐ ह्रां अरहंताणं सिद्धाणं सूरीणं उवज्झायाणं साहूणं मम ऋद्धिं वृद्धिं समीहितं कुरु कुरु स्वाहा। शुचिना प्रातः सन्ध्यायां वार ३२
का १२६