________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
स्मरणात् सर्वसिद्धिः कपर्दिकवत् कामधेनोः कामिताप्तिः
"कपर्दी नन्दिनीं धेनु-मधोक् द्वात्रिंशतं दिनान् ।
तत्क्षीरं स्वर्णलक्षाणि प्रान्ते भूपं न्यमन्त्रयत् ||१||" - अनु० श्री अणहिल्लपत्तने चौलुक्यवंश्यकुमारपालदेवो राजा, भोपला नाम राज्ञी, वाग्भटो महामन्त्री । श्रीहेमचन्द्रसूरिगुरुदेशनाकर्णनात् राजा परमार्हतोऽजनि । इतश्च तत्र पुरि कपर्दी नाम दुर्गतो वणिगभूत् । स च भक्तामरस्तवं पपाठ वर्णमात्राशुद्धमेकमना 'उपवैणवं गुणयति स्म । एकदा तस्यैकादशवृत्तं ध्यायतः श्रीयुगादीशयक्षिणी साक्षाद्भूता अर्थार्थिने वरमदात्-नन्दिनी कामगवीरूपेण सायं त्वन्मन्दिरे समेताऽस्म्यहम् । त्वया कोरकुम्भे दुग्धं सुवर्णं भवितेत्युवाच तथा चकार च । यावदेकत्रिंशद् घटाः स्वर्णपूर्णा जाता देवीमुत्कलापनाय समैत् । कपर्दी जजल्प-देवि ! भूरि भूरि दानेनानुगृहीतोऽहं भवत्या, परमेकदिनं धेनुरूपेणागन्तव्यं यथा तत्क्षीरं क्षैरेयीं कृत्वा राजादिकं भोजयामि । इति प्रतिपन्नं, तत् चक्रया कृतं च । द्वात्रिंशदहरन्ते सान्तःपुरपरीवारं नृपं न्यमन्त्रयत् । श्रीहेमाचार्याश्च पादावधारिताः (?)। अशनसामग्री न काऽपि । राजादीनामासनानि प्रदत्तानि । कपर्दी घटं परमान्नभृतमानैषीत् । यथारूचि परिवेषयामास । गुरुंश्च पूर्ण प्रत्यलाभयत् राजादयः सुरसं सुरभि सुधासममाकण्ठं परमान्नं बुभुजिरे यत् पूर्वं नाभुञ्जन् । नात्रुटत् भोजनान्ते एकत्रिंशद् हाटकघटा दर्शिताः । तेन विस्मितानां तेषां पुरः स्तवमहिमा प्रकाशितः स्वं स्वं स्वेच्छं भुङ्क्ष्वेति राज्ञोक्तम् । गुरुनृपवाग्भटादयोऽपि रञ्जिताः कपर्दिनं तुष्टुवुः। स भक्तामरस्तवप्रभावं वर्णयामास । चिरं विभवसुखसहितो जिनधर्मं प्रभावयामास ।।
॥ इति पञ्चमी कथा ॥ ५ ॥
१. सवेणुवाद्यम् ।
१२७