________________
॥ श्री भक्तामर स्तोत्रम् ॥
अथ भगवद्रूपवर्णनमाह - यैः शान्तेत्यादि
हे त्रिभुवनैकललामभूत ! - हे त्रिलोकार्ग्यशिरोग्रवर्तिमाल्यतुल्य ! पुरो न्यस्तं पुष्पाभरणं ललाममुच्यते । यैः परमाणुभिः - दलिकैर्निर्माणकर्मणा त्वं निर्मापितः - कृतः । किंभूतैः ? शान्ताः - प्रशमं गता रागस्य - अनुरागस्य रुचिः - कान्तिर्येभ्यस्ते तथा तैः । रागसहचरितत्वाद् द्वेषपरिग्रहः । अथ च (वा) शान्तनामा नवमो रसस्तस्य रागो भावस्तस्य रुचिः - छाया येषु तैः । खलु - निश्चितं तेऽपि अणवः - परमाणवस्तावन्त एव भगवद्रूपनिर्माणप्रमाणा एव वर्तन्ते । यद्यस्मात् कारणात् पृथिव्यां - भूपीठे ते - तव समानं तुल्यमपरम् अन्यद् रूपं नहि अस्ति न विद्यते । जिनरूपज्ञानगुणा अनुत्तरसूरेष्वपि न प्राप्ता औपम्यार्थं कविभिः तीर्थकृद्रूपं चिकीर्षवोऽमरा अपि न शक्ताः ।
उक्तं च (आवश्यक निर्युक्त्यां गा० ५६९) -
" सव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विउव्विज्झा । जिणपायंगुट्ठं पड़, न सोहए तं जहिंगालो || १ || " अथ यैः परमाणुभिः तेऽप्यणव इति पौनरुक्त्यम् । तत्रेयं व्याख्याऔदारिकवर्गणायामभव्येभ्योऽनन्तगुणाणुनिष्पन्नाः स्कन्धा अनन्ताः सन्ति, तेषु स्कन्धेष्वणवः- स्तोका एव जिनरूपपरमाणवः । अणुशब्दः स्तोकवाची। अथवा महाकविप्रयुक्तत्वात् मन्त्राम्नायेन स्तुतिवशादन्यार्थापादनाद् वा न पौनरुक्त्यम् । उक्तं च
-
-
"सज्झायज्झाणतवो - सहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसुं, न हुंति पुणरुत्तदोसाओ || १||" इति ॥
मन्त्रश्चात्र
ॐ ह्रीं चउद्दसपुव्वीणं ॐ ह्रीं पयाणुसारीणं ॐ ह्रीं एगारसंगधारीणं ॐ ह्रीं उज्जुमईणं ॐ ह्रीं विउलमईणं नमः स्वाहा ।। सारस्वती विद्या ॥ इति वृत्तार्थः ॥
१२८