________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
महिमकथा यथा -
त्रयीरूपं विधायोच्चै-बहुरूपो व्यजृम्भत ।
जिनरूपं चिकीर्षुस्तु, देव्याऽऽहत्य विडम्बितः ॥१॥ अङ्गदेशे चम्पापुरि कर्णो राजा । जिनधर्मरक्तो भक्तामरस्तवजापसक्तो मन्त्री सुबुद्धिः । अन्यदा कश्चिच्चेटकी बहुरूपो भूपसदः समासदत् । स चेटकबलेन शङ्ख-गदा-चक्र-शार्ङ्गशालिभुजं कृष्णवर्णं तक्ष्यिपत्रं लक्ष्मीनाथं विष्णुमकार्षीत् । ततो धवलवृषवाहनं धवलवर्णं चन्द्रशेखरं गङ्गधरं जटामण्डितमौलिं सर्वाङ्गभुजङ्गाभरणं 'भस्मलिप्तकरणं शिवाकान्तं शिवमदर्शयत्। तदनु राजहंसयानं चतुर्मुखं श्रुतिपवित्रवाचं सावित्रीसनाथं विरञ्चिं व्यरचयत् । अन्येऽपि (ग्रं०४००) स्कन्द-बुद्धगणपतिप्रभृतयः सुरा नृत्यन्तो दर्शितास्तेन । सर्वा पर्षद् विस्मयं गता । पुनरुवाच चेटकी-भो सुबुद्धे ! त्वद्देवं जिनं शिवपदादानयामीति भणित्वा यावत् तीर्थकृद्रूपं कर्तुं लग्नः, तावन्मन्त्रिप्रारब्धद्वादशवृत्तगुणनेनाविर्भूतचक्रेश्वर्या चपेटयाऽऽहत्य धरायां क्षिप्तः । तस्य नष्टा देवकला । कपट प्रकटं जातं वह्नितापेन हीनरूप्यवत् । आह स्म देवी-रे रे मूर्खशेखर ! दुष्टाशय ! निरञ्जनं वागगोचरचरित्रमरूपं परालक्षस्वरूपं सर्वसुरोत्कृष्टं जिनरूपं चिकीर्षुः कथं प्राणिषि?। यदि जीविताशा तदा सुबुद्धिं दैवतमिव भजस्व। इति भणनानन्तरमेव महामात्यक्रमयोरपतच्चेटकी । तुष्टा भूपादयः। मन्त्री भक्तामरस्तवमहिमानमवर्णयद् धर्मं च ।
"विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय । अभ्युन्नतिर्लोकपराभवाय येषां प्रकाशस्तिमिराय तेषाम् ॥१॥"
- इन्द्रवज्रा
तथा -
१. गात्रम् ।
ना
१२९ |