SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥ श्री भक्तामरस्तोत्रम् ।। अत्र दृष्टान्तमाह-किमिव? अंधकारमिव। इव-यथा। अंधकार क्षणात् क्षयं उपैति इत्यन्वयः। 'उपैति' इति क्रियापदम्। किं कर्तृ? 'अंधकारम्'। किं कर्मतापन्नम्? 'क्षयम्'। किंवि.? 'शार्वरं' रात्रिसम्भूतम्। पुनः किं.? 'आक्रान्तलोकं' व्याप्तविश्वम्। पुनः किं? 'अलिनीलं' भ्रमरकृष्णम्। "कालो नीलोऽसितः शितिः " (अभि. का. ६, श्लो. ३३) इति हेमसूरयः। पुनः किंवि.? 'अशेष' समस्तम्। पुनः किंवि.? 'सूर्यांशुभिन्नं' आदित्यकिरणविदीर्णम्। कथम्? आशु' शीघ्रम्॥ अथ समासा :- तव संस्तवः त्वत्संस्तवः षष्ठीतत्पुरुषः। युष्मच्छब्दस्य 'त्वन्मदेकत्वे.' (सा. सू.३३०) इति त्वदादेशः। भवानां सन्ततिः भवसन्ततिः, भवसन्तत्या संनिबद्धं भवसन्ततिसंनिबद्धम्। उपैति इत्यत्र इणेधिवर्जनान्नोपसर्गाकारलोपः। शरीरं भजन्तीति शरीरभाजस्तेषां 'भजां विण्' (सा. सू. १२३२) इति विण् प्रत्ययः। आक्रान्तो लोको येन तत् आक्रान्तलोकम्। अलिवन्नीलं अलिनीलं, मध्यलोपी समासः। न विद्यते शेषो यत्र तत् अशेषम्। सूर्यस्य अंशवः सूर्यांशवः, सूर्यांशुभिभिन्नं सूर्यांशुभिन्नम्। शर्वर्यां सम्भूतं शार्वरं 'तत्र कृतलब्धक्रीतसंभूते' (अ. ६, पा.३, सू. ९४) इति सिद्धहेमसूत्रादण्, शर्वर्यां भवं शार्वरमिति कौशल्याम् ; 'वर्षाकालेभ्यः' (सिद्ध. अ. ६, पा. ३, सू. ८०) इति हैमसूत्रेण, तथा 'कालाहञ्' (अ. ४, पा. ३, सू. ११) इति पाणिनीयसूत्रेण कथमिहं ठञ् प्रत्ययो नेति न चिन्त्यं, अर्थविशेषत्वात्, 'नैशो मार्गः सवितुरुदये सूच्यते कामिनीना' मिती व शारदं पार्वणः शर्वरीसार इत्यादि महाकविप्रयोगाच्च, सिद्धान्तकौमुद्या तु- 'शार्वरस्य तमसो निषिद्धये' इति कालिदासः, 'अनुदितोषसराग' इति भारविः, समानकालीनं प्राक्कालीनं इत्यादि च, 'अपभ्रंशा एवैते' इति प्रामाणिकाः इत्युक्तं, शर्वर्या इदं शार्वरमिति कश्चित्। अन्धं करोतीत्यन्धकारः, पुनपुंसकः। यथा सूर्योदिते तिमिरक्षयस्तथा त्वत्संस्तवनात् पापक्षयः, न च अत्रापसिद्धान्तः, अर्हवर्णसंज्वलनस्य भावस्तवत्वेन भगवत्याद्यागमेऽपि महाफलत्वेन उक्तत्वात्, 'पूजाकोटिसमं स्तोत्रं' इति लोकेऽपि सिद्धत्वाच्चेति, तद् विचिन्त्य यथाशक्त्याऽत्र प्रवर्तनीयमेवेत्याशयः।। इति सप्तमकाव्यार्थः।।७।। का १३ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy