________________
॥ श्री भक्तामरस्तोत्रम् ।।
"धम्मम्मि नत्थि माया, न य कवडं नाणुवत्तिभणियं वा । फुडपागडमकुडिल्लं, धम्मवयणमुज्जुयं जाण ॥२॥"- आर्या किञ्च - "हिंसामगिषु मा कृथा वद गिरं सत्यामपापावहां स्तेयं वर्जय सर्वथा परवधूसङ्गं विमुञ्चादरात् । कुर्विच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज प्रीति जैनमते विधेहि च परां धर्मे यदीच्छाऽस्ति ते ॥३॥"- शार्दूल० इत्याकर्ण्य बहुरूपो जिनधर्ममादृतवान्। चक्रेश्वरी तिरोऽभूत्। सर्वे परमदैवतमन्त्रमिव स्तोत्रं पेठुः । सुबुद्धिः सद्बुद्धिः सकलसंसारसुखभाजनं सर्वलोकमान्योऽभूत् ।।१२।।
॥ इति षष्ठी कथा ॥६।।
अथ मुखवर्णनमाह - वक्रमित्यादि
अत्र क्वशब्दौ महदन्तरं सूचयतः । हे सौम्यवदन ! क्व ते-तव वक्त्रंसकलमङ्गलमुखं मुखं वर्तते ? क्व निशाकरस्य-चन्द्रस्य बिम्बं-मण्डलं विद्यते? यत् त्वन्मुखस्येन्दोः साम्यमुच्यते तत्र महदन्तरालं पश्यामः। किंभूतं वक्त्रम्? सुरनरोरगाणां नेत्राणि हर्तुं शीलमस्येति विग्रहः। उरगाभवनवासिनः। निःशेषेण-सामस्त्येन निःशेषाणि (वा) कमलदर्पणचन्द्रादीनि सर्वाणि निर्जितानि-तर्जितानि जगत्रितयस्योपमानानि येन। तच्च चन्द्रबिम्बं किंभूतम्? 'कलङ्कमलिनं' मृगशशगुरुशापलाञ्छनकश्मलम्। यत् चन्द्रबिम्बं वासरे-दिने पाण्डुपलाशकल्पं-जीर्णपक्वपाण्डुरवर्णसवर्ण भवति। मुखस्य तेनोपमा कथं घटते?। इति वृत्तार्थः ।।१३।। मन्त्राश्चात्र - ॐ ह्रीं पूर्व आमोसहिलद्धीणं विप्पोसहिल० खेलोसहिल०
का १३० |