________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
जल्लोसहिल० सव्वोसहिल० नमः स्वाहा । रोगापहारिणीविद्या।।
अथ च गुणव्याप्तिमाह - सम्पूर्णेत्यादि हे त्रिजगदीश्वर !-त्रिजगन्नाथ ! तव गुणाः-क्षमावैराग्यादयस्त्रिभुवनं लवयन्ति-अतिक्रामन्ति, त्रिलोकीमाक्रम्य तिष्ठन्तीत्यर्थः। किंभूताः? सम्पूर्णमण्डलः-आश्विनपूर्णिमासम्बन्धी शशाङ्कः- चन्द्रस्तस्य कलाकलापःकरनिकरस्तद्वच्छुभ्रा-धवलाः। विश्वव्यापे हेतुं दर्शयन्ति । ये गुणा एकंनरान्तरपरिहारेण अद्वितीयं नाथं संश्रिताः-अशिश्रियन् । कः पुरुषो यथेष्टंस्वेच्छया सञ्चरतः-परिभ्रमतः तान् गुणान् निवारयति-निषेधयति? अपितु न कश्चन। त्रिजगदपि भवद्गुणग्रहणपरायणं दृश्यते। तथाच समर्थे प्रभौ सति सेवाश्रितानां सर्वत्र प्रचारो युक्त एव। अथ त्रिजगदीश्वरनाथं सम्पूर्णपदं त्रिजगदीश्वराणां सुरेन्द्रनरेन्द्रचमरेन्द्रादीनां नाथं परमपदप्राप्तौ योगक्षेमकारित्वात् । इति वृत्तार्थः ।।१४।। अथ मन्त्रः -
ॐ ह्रीं आसीविसलद्धीणं ॐ ह्रीं खीरासवलद्धीणं ॐ ह्रीं महुयासवलद्धीणं ॐ ह्रीं अमिआसवलद्धीणं नमः स्वाहा। विषापहारिणी विद्या ।। अथवा ॐ ह्रीं श्रीं क्लीं असिआउसा चुलु चुलु कुलु कुलु मुलु मुलु इच्छियं मे कुरु कुरु स्वाहा ।। त्रिभुवनस्वामिनी विद्या सर्वसमीहितदा ।। महिमकथा -
सत्यकस्य कनी डाही, भृगुकच्छेऽथ सुव्रतम् ।
उपोषिता स्रजं दिव्यां, लब्वा जिनमपूजयत् ॥१॥ - अनु० श्रीअणहिल्लवाटके पत्तने सत्यकः श्रेष्ठी। तस्य गुरवः श्रीहेमचन्द्राचार्याः । सत्यकस्य सकलकलाभिर्यथार्थनामधेया डाहीति कन्याऽभूत्। अष्टवार्षिकी सा पञ्चासरश्रीपार्श्वनाथं गुरुंश्च नमस्कृत्याऽभुङ्क्त । शुचिर्भ
ना १३१ |