________________
॥ श्री भक्तामरस्तोत्रम् ॥
क्तामरस्तवं त्रिसन्ध्यं ध्यायति स्म। श्रेष्ठिना कन्या भृगुकच्छे दत्ता । क्रमेणोद्वाहो जातः । जन्ययात्रा भृगुपुरं प्रत्यच (व) लत्। सर्वे भद्रका देवाधिदेवप्रतिमां नानिन्युः समम्, जिनवन्दनां विना डाही नाभुङ्क्त । चिन्तापरा ऊचुः श्वशुरादयः - वत्से ! प्साहि दुःखं कर्तुं न युक्तम्, ( यतः) कन्याः शालिसधर्माणोऽन्यत्र जायन्तेऽन्यत्र वर्धन्ते । सा मौनमा
>
लम्ब्यास्थात् ।
उक्तं च
“कलाकलापसम्पन्ना, जल्पन्ति समये परम्।
घनागमविपर्यासे, केकायन्ते न केकिनः ॥ १॥" - अनु० भक्तामरस्तवं गुणयति स्म । एषा पितृगृहविरहव्यथामुद्वहतीति खिन्नाः सर्वे निरशनाः पन्थानं यातां यामिनी जाता। स्थिता जन्ययात्रा । त्रयोदशचतुर्दशवृत्ते गुणयन्त्यास्तस्याश्चक्रेश्वरी पुरः प्रादुर्भूता भौतीसमये, उवाच च भद्रे ! प्साहि तव किं न्यूनम् ? अहमादिदेवसेवापरा चक्रा। डाही जगाद -मवतं पूरयेति । ततो देवी चन्द्ररोचिः शुचितरं विषघ्नं हारमदाद् दिव्यामम्लानां कुसुममालां गुरुणां पादुके च । एषा स्रक् मुनिसुव्रतकण्ठे स्थाप्या, नित्यं रत्नमालेव स्थाता । तस्मिन्नर्चिते वन्दिते श्रीपार्श्वोऽर्चितो वन्दित एव । जिनास्तुल्यगुणास्तुल्यफलदाः सर्वे 1 पादुकयोर्नतयोर्हेमाचार्यो नत एव । हारः स्वकण्ठाभरणीकरणीयः । विभाते मदर्पितहारमध्यमणिमध्यात् प्रादुर्भूतं प्रभूतमहिमानं श्रीपार्श्वबिम्बं सर्वसमक्षं नत्वा भोक्तव्यं चेत्युक्त्वा चक्राऽदृश्याऽभूत् । प्रातः सर्वं श्वशुरादीनां मार्गेऽऽची (च) कथत् अदीदृशच्च अवसरज्ञा सा । उक्तं च
1
-
"यत्र स्ववचनोत्कर्षो, भाषन्ते तत्र साधवः ।
कलकण्ठ: सदा मौनी, वसन्ते वदति स्फुटम् ||१||" - अनु०
१. भोजनं कुरु । २. रात्रिसमये ।
१३२