________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
पारणं कृतम् । तुष्टाः सर्वे विस्मिताश्च । क्रमाद् भृगुपुरं प्राप्ताः। तया श्रीसुव्रतकण्ठे स्रगारोपिता। माला तादृगेवातिष्ठत्। गुरुपादुके नित्यं ननाम। हारादनेकशो विषापहारः कृतः। सत्यककन्यायाः सर्वं सत्यं प्रभावं दृष्ट्वा श्वशुरपक्षो दृढधर्मो जातः । स्तवमहिमा प्रकाशितस्तया। चिरं सुखभोगभागभूत् डाही सुश्राविका ।।
॥ इति सप्तमी कथा ।।७।।
* * * अथ भगवन्नीरागतामाह - चित्रं किमत्रेत्यादि हे सकलविकारनिकारपर ! यदि त्रिदशाङ्गनाभिः- नरस्त्रीभ्योऽधिकरूपलावण्यशृङ्गारादिभिरधिकमोहनचेष्टाभिर्देवीभिस्ते मनः-अन्तःकरणं मनागपिअल्पमात्रमपि विकारमार्ग-कामोत्कोचपथं न नीतं-न प्रापितं अत्र-अस्मिन्नर्थे किं चित्रं-किमाश्चर्यम्?! यतोऽन्यैरप्युक्तम्
एको रागिषु राजते प्रियतमादेहाहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः । शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥१॥"
- शार्दुल० अत्र दृष्टान्तः-कदाचित्-कस्मिंश्चित् क्षणे चलिताचलेन-कम्पितान्यपर्वतेन कल्पान्तकालमरुता-प्रलयसमयपवनेन मन्दराद्रिशिखरं- मेरुशृङ्गं किं चलितं-स्वस्थानात् किं धूतम् ? यतो युगान्ते सर्वपर्वतानां क्षोभो भवति, न सुमेरोः । तथा देवीभिरिन्द्र-चन्द्रगोपेन्द्र-रुद्रादयः क्षोभिताः, न जिनेन्द्रः। इति वृत्तार्थः ।।१५।।
मन्त्रो यथा - चउवीस तीर्थंकरतणी आण। पञ्चपरमेष्ठितणी आण। चउवीस
१. मुनिसुव्रतगले ।
का १३३ |