________________
॥ श्री भक्तामरस्तोत्रम् ॥
तीर्थकरतणइ तेजि पञ्चपरमेष्ठितणइ तेजि। ॐ अहँ उत्पत्तये स्वाहा। शुचिश्चतुर्दिक्षु कायोत्सर्गेऽष्टोत्तरशतजापे कृते स्वप्ने शुभाशुभं लभते । धनधान्यऋद्धिमहामहिमप्रभृतयः स्मरणाद् भवन्ति । ॐ ह्रीँ पूर्वं जिणाणं ओहिजिणाणं परमोहिजिणाणं अणंतोहिजिणाणं सामन्नकेवलीणं भवत्थकेवलीणं अभवत्थकेवलीणं नमः स्वाहा । बन्धमोक्षिणी विद्या । प्रभावे कथा -
अचेष्टं नृपति गाढं, योगिनीदोषतो मुनिः
मन्त्र्यानीतो मल्लनामा, सज्जनं नीरुजं व्यधात् ।।१।। - अनु० श्रीअयोध्यायां पुरि यथार्थनामा सज्जनो राजा। अन्यदा राज्ञो दुष्टयोगिनीदोषो लग्नः। सर्वाङ्गव्यथयाऽचेष्टनोऽजनि नृपः । मन्त्रिसामन्तादिभिर्बहवो रुप्रतिक्रिया ः कारिताः, (परन्तु) प्रतीकारः कोऽपि न जातः । ततो मन्त्रिणस्तत्रस्थं श्रीगुणसेनसूरिं व्यजिज्ञपन्-राजानं सज्जीकुरुध्वमिति। गुरुभिरुक्तम्-द्रक्ष्यामः किमपि। निशि भक्तामरस्तवमन्त्रं ध्यायतां तेषां पञ्चदशवृत्तगुणनक्षणे कयाचिद् देव्या मल्लर्षिपदोदकाभिषेकः सज्जनस्य सज्जताहेतुरुक्तः। प्रातर्मन्त्रिपुरो गुरव ऊचुः-गूर्जरदेशान्निशि नित्यकायोत्सर्गस्थास्तुं दुर्गोपसर्गजिष्णुं महामहिमानं मल्लनामानं मुनीन्द्रमानाययध्वं यथा राजदोषो याति । इति श्रुत्वा चेलुः प्रधानानि (?)। तत्र गत्वांऽही नत्वाऽत्यर्थमभ्यर्थ्य चक्रादिदेवतावातसेवितः समानीतो मल्लर्षिः । चरणोदकेन राजा गतदोषोऽभूत् । समन्तान्मुनिमाहात्म्यमुदलसत् । उक्तं च - "न व्योमयानं न हिरण्यसिद्धि- र्न पादनीरेण गदोपशान्तिः । न काऽपि लब्धिर्न च काऽपि सिद्धिः कोऽयं विशेषो वतिनां तपस्सु? ॥१॥"
- उपजातिः मल्लमुनिर्धर्ममुपादिशत् यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥१॥" - उपेन्द्रवजा
ना १३४ |