________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
सर्वथा जीवरक्षा कार्येति जैनानां मुष्टिः । "दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं, किमन्यत् कामदैव सा ॥१॥" इत्याकर्ण्य जीवदयाधर्म प्रपन्नः सज्जनः परमजैनोऽजनि राजा। सर्वेऽपि मन्त्रिणोऽर्हद्धर्मपरा अभूवन्।।१५।।
॥ इत्यष्टमी कथा ।। ८।।
अथ भगवतो दीपेनोपमानिरासमाह - निर्धूमेत्यादि हे त्रिभुवनभवनैकदीप ! त्वं अपरः-अपूर्वो दीपः- कज्जलध्वजोऽसिवर्तसे । यतो दीपो धूमवान् सवर्तिस्तैलेनोद्योतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात्। त्वमपूर्वदीपः । किंभूतः ? नितरां गते निर्गते धूमवर्ती यस्मादसौ निधूमवर्तिः । धूमो द्वेषः, वर्तिः कामदशाश्चेति। अपवर्जितः- त्यक्तस्तैलपूरो येन स तैलपूरः-स्नेहप्रकारः । अन्यच्च त्वं कृत्स्नं- सम्पूर्ण पञ्चास्तिकायात्मकं जगत्त्रयं-विश्वत्रयमिदंप्रत्यक्षगतं प्रकटीकरोषि-केवलोद्योतेन प्रकाशयसि । (ग्रं. ५००) अन्यत् त्वं जातु-कदाचित् चलिताचलानां-धुतगिरीणां मरुतां-वातानां न गम्यो-न वशः । अथवा परीषहोपसर्गेषु चलिताचलानां-कम्पितपृथ्वीकानां मरुतांदेवानां न गम्यो-नाकलनीयः। जगत्प्रकाशो-जगद्विश्रुतः । अथवा जगच्चरिष्णुः-सर्वत्र प्रसारी प्रकाशो-ज्ञानालोको यस्य सः, अत एवापरः-अन्यो दीपस्त्वम्। इति वृत्तार्थः ।।१६।। अत्र मन्त्र :- ॐ ह्रीं पूर्वकं बीयबुद्धीणं कुट्ठबुद्धीणं सम्भिन्नसोआणं अक्खीणमहाणसीणं सव्वलद्धीणं नमः स्वाहा। श्रीसम्पादिनी विद्याऽत्र वृत्ते ज्ञेया॥
का १३५ न