________________
॥श्री भक्तामरस्तोत्रम् ॥
___ अथ सूर्येणौपम्यनिरासायाह - नास्तमित्यादि ___ हे मुनीन्द्र !-मुमुक्षुप्रभो ! लोके भुवने त्वं सूर्यातिशायिमहिमा असिवर्तसे। सूर्यादतिशायी-सविशेषः-अपूर्वो महिमा-माहात्म्यं यस्य सः । यतो रविरस्तं प्रयाति राहुणा परिभूयते लक्षमात्रं विश्वं प्रकाशयति मेघच्छन्नो निस्तेजाश्च स्यात् । त्वं तु अपूर्वः पूषा कदाचिद् रजन्यादौ नास्तमुपयासि-क्षयं न गच्छसि, केवली नक्तंदिवं-सदाऽऽलोकः, न राहुगम्यः-न सैहिकेयग्रसनीयः । अथ राहुशब्देन कृष्णवर्णत्वाद् दुष्कृतं न तद्व्याप्तः। सहसा-झटिति-शीघ्रं युगपत्-समकालं जगन्ति-भुवनानि स्पष्टीकरोषि-प्रकटयसि। ननु केवलिनः प्रथम(?) समये सामान्योपयोगलक्षणं दर्शनं द्वितीय(?) समये विशेषोपयोगरूपं ज्ञानं, तत् कथं युगपद्ग्रहणम्?। उच्यते-द्विसमययोरतिसूक्ष्मत्वात् निरन्तरप्रभवत्वात् केवलिगम्यत्वाद् युगपद्ग्रहणं न्याय्यमिति। अथ "जुगवं दो नत्थि उवओगा"। तत्र भगवत एकस्मिन् समये दर्शनमन्यस्मिन् ज्ञानं, तत् कथम्? सत्यम्। तद् द्वयं वचनक्षणे एकीभावोपगतमिति युगपद्ग्रहणम् । न अम्भोधरोदरेण-घनगर्भेण निरुद्धः-छन्नो महाप्रभावो-गुरुप्रतापो यस्य सः। अत्राम्भोधरशब्देन मतिश्रुतावधिमनःपर्ययकेवलानामावरणानि गृह्यन्ते। पञ्चभिरेतैरावरणैर्न तिरोहितज्ञानोद्योतः, अत एव सहस्रकिरणादधिकमाहात्म्योऽसि ।। इति वृत्तार्थः ।। ___अत्र मन्त्रः . ॐ ह्रीं उग्र (ग्ग?) तवचरणचारीणं ॐ ह्रीं दित्ततवाणं ॐ ह्रीं तत्ततवाणं ॐ ह्रीं पडिमापडिवन्नाणं नमः स्वाहा ।। परविद्योच्छेदिनी विद्या ।। कथा यथा - चक्रा बहुदेवीयुग, नरके गुरुभूपजौ ।
नीत्वा तौ पुनरानीय, कृतो धर्मोद्यतः सुतः ॥१॥
का
१३६ |