SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। सङ्गरपुरे निर्जितानेकानेकपसङ्गरो' निःस्वताधीनदीनजनधनसङ्गरः२ सत्यसगर:३ सगरो राजा परमार्हतः। तस्य गुरवो धर्मदेवाचार्याः। अन्यदा राज्ञो गृहे पुत्रजन्म । स नाम्ना क्रियया च केलिप्रियः यौवनस्थः सकलाः कला जग्राह । धर्मं नाकरोत्। व्यसनी भक्ष्याभक्ष्यपेयापेयगम्यागम्यसममतिः । राजा पुत्रं प्रबोधयतेति गुरुनगदत् । गुरवः केलिप्रियमुपादिक्षन्-भोकुमार ! "ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहु-रेमिश्च सह सङ्गमः ।।१॥ - अनुष्टुप् यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि । तदा सज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ॥२॥ - अनुष्टुप् यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यलेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्यौ चिन्तामणिं पातयति प्रमादात् ॥३॥"-इन्द्रवज्रा आगमे (स्थानाङ्गे ४,४ ) अपि - महारम्भयाए महापरिग्गहयाए कुणिमाहारेणं पंचंदियवहेणं जीवा निरयाउअं कम्मं पगरंति ।। (छाया - महारम्भेन महापरिग्रहेण मांसाहारेण पञ्चेन्द्रियवधेन जीवा नरकायुष्कं कर्म प्रकुर्वन्ति ।।) इत्यादिष्टोऽप्यभाषिष्ट स निकृष्ट :-नास्ति धर्मः तत्साधकजीवाभावात्, घनाघनाभावे गिरिसरित्पूराभाववत् । पञ्चमहदहा)भूतोत्पन्नां चेतना मुक्त्वाऽन्यः कोऽपि देहे नास्त्यात्मा। तदभावान्नरकाद्यभावः, ग्रामाभावे सीमाभाववत् । वाचाटश्चार्वाकोऽयं पठितग्रन्थो दुर्बोध इत्यचिन्ति गुरुभिः। ___“ विद्ययैव मदो येषां, कार्पण्यं विभवेष्वहो। तेषां दैवाभिभूतानां, सलिलादग्निरुत्थितः ॥॥" ऊचुस्ते पुनस्तम् - १. सङ्ग्रामः । २. धनदः । ३. प्रतिज्ञः । ना १३७ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy