________________
॥श्री भक्तामरस्तोत्रम् ।।
-
"धर्माद् धनं सुखं भोगा, आरोग्यं राज्यसम्पदः ।
अधर्माद् दुःस्थता दुःखं, दास्यदुःकीर्तयो रुजः ॥१॥" इत्यादि धर्मवाक्यवार्यभिन्नमध्यं मुद्गशैलवत् तं मत्वा 'जोषमवकलयन् श्रीधर्मदेवसूरयः। उक्तं च -
“वचस्तत्र प्रयोक्तव्यं, यत्रोक्तं लभते फलम् ।
स्थायीभवति चात्यन्तं, रागः शुक्लपटे यथा ॥१॥" पुनरेकदा क्षणदायां राजपुत्रप्रबोधोपायं चिन्तयन्तो गुरवः स्तवषोडशसप्तदशवृत्ताम्नायगुणनक्षणे नरकदर्शनात् केलिप्रियप्रबोधो भावीति चक्रयोक्ताः सूरयोऽवदन्-तथा कुरु यथाऽस्मद्युतो नरकं पश्यति राजसूः । ततो बहुदेवीसहितया तया गुरुराजपुत्रौ नीतावधोमेदिनीम् । तत्र वक्तुमशक्या बहुविधाः शीतातपादिवेदनाः क्षेत्रजसहजा दृष्टाः। छेदन - भेदन - ताडन - त्रपुपानाऽग्निपुत्तलिकालिङ्गनाऽङ्गव्यथनादीनि कृच्छाणि पूर्वभवपातकं स्मारस्मारं कुर्वतां परमाधार्मिकाणां पुर : पटुबटुशतानि वितन्वन्तस्तथापि चौरा इव कदर्थ्यमाना नैरयिकाश्च। ततो भीतो नृपसुतः पातकफलदर्शनात् प्रापितः कम्पमानः स्वपुरं गुरुयुतोः देव्या। गुरुभिर्भणितश्च-भद्र ! दृष्टं पापफलं न वा?। केलिप्रियेणोक्तम्-भगवन् ! बाढं दृष्टम् । कौरकुम्भवद् भिन्नं नृपसूनुहृदयं धर्मतत्त्वाम्भसा, गुरुणां पदमूले सम्यक्त्वमूलश्रावकव्रतान्यङ्गीचकार। पापेभ्योऽबिभ्यदतिदुष्टव्याघ्रदर्शनादज इव चिरं धर्म पालयामास राज्यसुखं चेति ।
।। इति नवमी कथा ।।९।।
अथ विशेषादिन्दूपमां निरस्यन्नाह - नित्योदयमित्यादि हे देववृन्दवन्दा ! तव मुखाब्जं-वदनकमलं अपूर्वं शशाङ्कबिम्बं१. तूष्णीम् ।
ना १३८ |