________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
नवेन्दुमण्डलं विभ्राजते-भाति । किंभूतम् ? नित्योदयं-शाश्वतशोभोल्लासम् । चन्द्रबिम्बं तु प्रातरस्तमेति । दलितं-ध्वस्तं मोहः-अज्ञानं-मोहनीयं कर्मैव महान्धकारं येन तत् । त्वन्मुखं मोहमहातमो हन्ति । चन्द्रबिम्बं त्वल्पान्धतमसनिरासे न क्षमम्। राहुवदनस्य न गम्यं-राहुसमदुर्वादिवादस्यागोचरः । वारिदानां च न गम्यं-मेघसमदुष्टाष्टकर्मणां न वशं, तानि जिनमुखेक्षणात् क्षयं यान्ति । चन्द्रबिम्बं राहोर्मेघानां च गम्यं स्यात् । पुनः किंभूतम् ? अनल्पकान्ति-गुरुतरद्युति। चन्द्रबिम्बं चाल्पप्रभं, कृष्णपक्षे क्षीणतेजस्त्वात् । मुखं जगद् विश्वं विद्योतयत्-प्रकाशयत् । शशिबिम्बं भूखण्डप्रकाशेऽप्यसमर्थम् । अथ नित्यं-सदा उत्-उल्लसत् अयः-शुभं भाग्यं यस्य तन्नित्योदयं, सदोल्लसच्छुभभागधेयमित्यर्थः । अतश्चन्द्रमण्डलादत्यद्भुतं भवन्मुखम् ।। इति वृत्तार्थः ।।१८।।
अत्र मन्त्रः -
ॐ ह्रीं जनाचरणाणं ॐ ह्रीं विज्झाचरणाणं ॐ ह्रीं वेउव्वियइढिपत्ताणं ॐ ह्रीं आगासगामीणं नमः स्वाहा ।। दोषनिर्नाशिनी विद्या ।। प्रभावे कथा -
आम्बडो मन्त्रिराड् ध्यायन्, लेभे चन्द्राश्मनिर्मितम् ।
बिम्बं विषहरं नाग-वल्लीपत्राणि चान्वहम् ॥१॥ श्रीअणहिल्लपुरे श्रीश्रीमालकुलतिलकः श्रीउदयनपुत्रः श्रीआम्बडः श्रीकुमारपालदेवेन राज्ञा लाटदेशाधिपतिः कृतः। स भक्तामरस्तवं जपति स्माहर्निशम् । एकदा भृगुकच्छात् पल्लीवनं सिषाधयिषुर्निरसरत् । महान्धकारे गिरिकान्तारे निशि स्तवस्याष्टा- दशं वृत्तं स्मरंश्चक्रयोक्तःवत्स ! शुचितया स्तवस्मरणैकतानतया चाहं तुष्टाऽस्मि । विषघ्नं विघ्नहरं चन्द्रकान्तमयं चान्द्रप्रभं बिम्बं गृहाण, वरं च वृणीष्वेति। आम्बड़ो दण्डेशो निःस्पृहोऽपि सदाऽभीष्टनागवल्लीदलानि याचितवान् । नम
-
-
ना १३९