________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
અર્થ: દેહધારીઓના ભવ પરંપરાથી ગાઢ બંધાયેલા પાપ તમારા સ્તવન વડે ક્ષણવારમાં ક્ષય પામે છે. જેમ વિશ્વવ્યાપ્ત, ભમરા જેવો કાળો, રાત્રિ સંબંધી સંપૂર્ણ અંધકાર સૂર્યના પ્રકાશથી ભેદાયેલો તત્કાળ ક્ષયને પામે છે.
अथ पापक्षयार्थिनां स्वत एवास्योपादेयता भविष्यतीत्याह -
मत्वेति नाथ ! तव संस्तवनं मयेद
मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः॥८॥ दण्डान्वयः - इति मत्वा हे नाथ ! तनुधिया अपि मया इदम् तव संस्तवनम् आरभ्यते, तव प्रभावात् सताम् चेतः हरिष्यति, ननु उदबिन्दुः नलिनीदलेषु मुक्ताफलद्युतिम् उपैति ।
हे नाथ ! मया इदं वक्ष्यमाणं त्वत्संस्तवनं आरभ्यते-प्रारम्भक्रियाविषयीक्रियते इत्यन्वयः। कर्मणि उक्तिः।
आरभ्यते' इति क्रियापदम्। केन का? ‘मया'। किं कर्मतापन्नम्? 'संस्तवनं' स्तोत्रम्। किंविशिष्टं संस्तवनम्? 'इदं' बुद्धिस्थम्। किंविशिष्टेन मया? 'तनुधिया' स्वल्पबुद्ध्या। किं कृत्वा? 'इति मत्वा' एवं ज्ञात्वा ।
इतीति घण्टालालान्यायेन इदमिति पदस्य उभयत्र सम्बन्धात् इदं संस्तवनं सतां चेतो हरिष्यति-आक्षेप्स्यति वशं नेष्यतीतियावत् इत्यन्वयः।
‘हरिष्यति' इति क्रियापदम्। किं कर्तृ? “संस्तवनम्'। किं कर्मतापन्नम्? 'चेतः', केषाम्? ‘सताम्'। कस्मात्? 'प्रभावात्। कस्य? 'तव'।
ननु-निश्चितम् उदबिन्दुः मुक्ताफलद्युतिं उपैति इत्यन्वयः। 'उपैति' इति क्रियापदम्। कः कर्ता? 'उदबिन्दुः' जलकणः। कां
का १४