________________
॥श्री भक्तामरस्तोत्रम् ॥
स्कृता देवी प्रतिश्रुत्यान्तर्दधे। बिम्बमपूजयन्नित्यं पल्लीवनमसाधयत् । क्रमेण राजादेशाद् राजपितामहं मल्लिकार्जुनं नृपं छलेन हत्वा शृङ्गारकोटिशाटिका १ गरलहरसिप्रा २ श्वेतो हस्ती ३ पात्राणामष्टशतं ४ द्वात्रिंशन्मूटका मौक्तिकानां ५ घटीशतमितः कनककलशः ६ अग्निधौतोत्तरपटः ७ मल्लिकार्जुनशिरः ८ चेत्यष्टौ वस्तूनि श्रीकुमारपालभूपालायाढौकयत् । शूरो वीरो राजपितामहबिरुदभाग् विषदोषमुक्तोऽभूत् । जननीपादौ नमोऽकरोत् । माता नाऽरज्यत। पृष्ट कारणे सोवाच-किं भृगुकच्छे सकुनिकादिविहारोद्धारं कृत्वा समेतोऽसि येनाहं तुष्यामि?, राजहत्ययोत्सेकवान् भवान् । स कृतनिश्चयः श्रीहेमचन्द्रसूरिसान्निध्यादुद्धारं चकार । प्रतिष्टाक्षणे तस्य दानोत्कर्षं दृष्ट्वा गृहिस्तुतिविमुखश्रीहेमसूरिभिर्वर्णना चक्रे -
"किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः । ___ कलौ चेद् भवतो जन्म, कलिरस्तु कृतेन किम् ॥१॥" माता नितान्तमरज्यत। दुर्लभताम्बूलिकेऽपि देशे ताम्बूलं बुभुजे। सर्वदा सर्वदो भोगभागी जातः श्रीआम्बाडदण्डाधिपतिः ।
॥ इति दशमी कथा ॥१०॥
* * * किञ्च - किं शर्वरेत्यादि हे नाथ ! शर्वरीषु-रजनीषु शशिना-चन्द्रेण किम् ?। अह्नि-दिवसे विवस्वता-सूर्येण वा किं कार्यं भवति ? तमस्सु-अन्धकारेषु युष्मन्मुखेन्दुदलितेषु-भवद्वदनचन्द्रविनाशितेषु सत्सु। अथ (वा) तमस्सु-पातकेषु । अत्र दृष्टान्तः-जीवलोके-भूपीठे निष्पन्नशालिवनशालिनि सति जलभारननैः-सलिलभरनतर्जलधरैः-घनैः कियत् कार्यं स्यात् । न किमपी१. सत्ययुगेन ।
ना १४० |