________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
त्यर्थः । निष्पनैः-पाकं प्राप्तैः शालिवनैः-कलमादिकेदारैः शालते-शोभत इत्येवंशीलः तस्मिन् निष्पन्नशालिवनशालिनि । यथा तृणवल्लीधान्यादिषूत्पन्नेषु मेघाः केवलक्लेशकर्दमशीतहेतुत्वात् निष्फला एव, तथा त्वन्मुखेन्दौ ध्वस्तदुरिततिमिरे शैत्यसन्तापपीडाकारित्वाच्चन्द्रसूर्याभ्यां न कोऽप्यर्थः सिद्धः। यत आगमेऽपि चोक्तम् -
"चंदाइच्चगहाणं, पहा पयासेइ परिमियं खित्तं ।
केवलियं पुण नाणं, लोयालोयं पयासेइ ॥१॥" - आर्या इति वृत्तार्थः ॥१९॥
अत्र मन्त्रः - ॐ ह्रीं पूर्वं मणपज्जवनाणीणं सीयलेसाणं तेउलेसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयग्गिनिसग्गाणं नमः स्वाहा । अशिवोपशमनी विद्या ।। कथा यथा -
रामचन्द्रोपदेशेन, लक्ष्मणः संस्मरन् स्तवम् ।
निशायां शशिनं पश्यं-स्तुष्टाऽभूच्चक्रवाहिनी ॥१॥ - अनु० श्रीविशालायां विशालायां पुरि लक्ष्मणो नाम वणिगासीत् । स श्रीरामचन्द्रसूरिगुरुमुखाद् भक्तामरस्तवं साम्नायमपाठीत्, अजपच्च । शुचेरेकचित्तस्य दिनान्तस्त्रिःपरिवर्तयतस्तस्याग्रे एकोनविंशवृत्तजापावसरे निशि चक्राऽऽविरभूत् । चन्द्रमण्डलं ददर्श। तुष्टा देवी प्राह स्म-यत्र महान्धकारे स्तवं स्मर्ताऽसि तत्र त्वं चन्द्रं द्रक्ष्यसि । वाञ्छिताप्तिर्भवित्रीत्युक्त्वा तिरोहिता चक्रेश्वरी (ग्रं. ६००)। ___ एकदा मालवेशो राजा महीधरनामा सीमालजयनाय गतः कान्तारं प्रविष्टः । तत्र प्रदेशे महान्धकारं दृष्ट्वा सैन्यस्य यामिनीगमने दुरवस्थां विचिन्त्य प्रभावनाचिकीः सहागतो लक्ष्मणो भूपं न्यगदत्-देव ! सम्पूर्ण चन्द्रं दर्शयामि, दिनसमां यामिनी कारयामि सैनिकानाम् । राज्ञोक्तम् -
ना
१४१