________________
॥ श्री भक्तामरस्तोत्रम् ॥
कुरु, दत्स्व जलं मह्यं, तव वाञ्छितमहं दातेति श्रुत्वा स्तवं स्मृत्वा प्रकटितश्चन्द्रः। प्रातर्गतमचिन्तितं वैरिराजपुरं बलम्। बद्धो रिपुः राज्ञा पुरमात्मसात्कृतम् । लक्ष्मणः सकललक्ष्मीपतीकृतश्च । स स्तवमहिमानमवादीत् । गुरुपार्श्वे लक्ष्मणो राजानं धर्ममश्रावयत्"जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु । साध्वी लक्ष्मीचरणकमलोपासना सद्गुरुणां शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः॥शा" - मन्दाक्रान्ता देवगुरुधर्मरूपं रत्नत्रयं श्रुत्वा जिनधर्मभागभूत् महीधरमहीशः। लक्ष्मणो लक्ष्मीवान् सर्वार्चनीयोऽभूत् । उक्तं च - "महिमानं महीयांसं, सङ्गः सूते महात्मनाम् । मन्दाकिनीमृदो वन्द्या-स्त्रिवेदीवेदिनामपि ॥१॥" - अनु०
॥ इत्येकादशी कथा ।।११।।
* * * अथ ज्ञानद्वारेणान्यदेवान् क्षिपति - ज्ञानं यथेत्यादि हे लोकालोकप्रकाशज्ञान ! यथा - येन प्रकारेण कृतावकाशं अनन्तपर्यायात्मकवस्तुनि विहितप्रकाशं ज्ञानं सम्यक् त्वयि विभाति, तथा-तेन प्रकारेण हरिहरादिषु-विष्णु-रुद्र-ब्रह्म-स्कन्द-बुद्धादिषु नायकेषु-स्वस्वमतपतिषु एवंविधं ज्ञानं न वर्तते। एवमवधारणे वा। अवधारितं त्वयि ज्ञानम्, तेष्वज्ञानमेव । ते ह्यात्मानं कयाचिद् भयदर्शनभङ्गया नायकत्वेन ख्यापयन्तोऽपि विभङ्गज्ञानिन एव। तेषां ज्ञानं वेदादौ व्यभिचरति यथा"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति' (बृहदारण्यके २।४।६) इति पञ्चमहद्भूतेभ्योऽन्यो न कोऽपि। तत्रैव
"असूर्या नाम ते लोको, अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति, ये के चात्महनो जनाः ॥१॥" - अनु०
-
का
१४२ |